________________
१६८ श्रीनिशुन्दरसूरिविरचितः ।
न यदाज्ञां तव लङ्घयन्त्यहो ॥ ८ ॥ त्रिजगन्निजजन्मनाऽप्यहो
युगपत्वं यदलम्मयः सुखम् । अतिभक्तिभृतेऽपि तोषितै
दंदितुं तन्न परैः प्रगल्भ्यते ॥९॥ यदनन्तमुपाधिमुक् परं
भवतो ब्रह्म न तत्र साक्षिणः। यदिह त्वयि लीनचेतसा
मनुभूतौ तदपि त्रिलोकजित् ॥ १०॥ जिनेश यैश्वर्यरमा हरादिषु
प्रकल्पिता सा मघवादिषु वणुः । पतिस्त्रिलोक्याश्च परो न वर्त्तते - तया तवैवेत्युपमोपमेयता ॥ ११ ॥ वया परब्रह्मरसः प्रदर्शितः ___स कोऽपि सिद्धान्तसरोवरे प्रभो । मनो झषाणां सुधियां यमश्नता