________________
श्रीजिनस्तोत्ररवकोशः। . १५९ स्याहावारिजयश्रिया मम यतः श्रेयोऽचिराच्छाश्वतम्२४ इति युगप्रधानावतारहत्तपागच्छाधिराजश्रीदेवसुन्दरसूरिश्रीमानसागरसूरिश्रीसोममुन्दरसूरिशिष्यैः श्रीमुनिसुन्दरसूरिभिर्विरचिते जयश्यके श्रीजिनस्तोत्ररनकोशे प्रथमप्रस्तावे नागइदभूषणश्रीपार्श्वजिनस्तोत्ररत्नं द्वादशम् ।
॥ अर्हम् ॥ जयश्रीः संश्रयेद् यस्य स्तोतृन द्वेषाऽरिनिर्जयात् । तं श्रीपार्श्वप्रभुं स्तौमि फलवढिविभूषणम् ॥१॥ आरोग्यायुर्विभवविभुताभोगसबुद्धिरूप
श्रेय श्रेणिप्रणयविनयाद्याढ्यपुत्रादिलाभाः। यत्पूजा स्वर्बततिजनुषां वर्णिका, स्याफलाना
मत्राप्याप्या स भवतु सतामिष्टकृत्पार्श्वदेवः ॥२॥ साम्राज्यश्रीगंतरिपुभया चक्रिणो वा समृद्धिदेवेन्द्रादित्रिदशपदवी साऽपि चाहन्त्यलक्ष्मीः ।