________________
१५८ श्रीमुनिमुन्दरमरिविरचितः ।
त्वं पासि तान् नाथ नवः क्षमाभृत् ॥ २० ॥ तव त्रिलोक्यां महिमा चकास्ति य
स्तदर्पिताकर्षवशात्समारति। समन्ततः पार्थ नरामरासुरा
स्त्वदर्चनार्थ भगवन्निहानिशम् ॥२१॥ न सम्प्रति तं नृपतिं स्तवीति कः
सुखाकृता येन जगज्जनाः सदा । श्रीपार्श्व विश्वेहितशर्मदायक
त्वत्तीर्थकल्पद्रुमरोपणादिह ॥ २२॥ स्तन्नात्याज्ञा तव हरिकरिव्यालवतयणवादीन् । स्तोत्रं किं तद्वहति मघवाऽप्युत्तमाङ्गे यदेताम् । शम्भुर्धत्ते शिरसि सरितं जह्वजां यां किमस्या माहात्म्योक्तिः शिशुगणपदोल्लङ्घनाशक्यतायाम् ॥२३॥ एवं त्वं नुतपादपद्ममयका श्रीपार्श्वनाथार्थ्यसे नागेन्द्रस्तुतसोमसुन्दरयशाः पद्मावतीपूजित । नाम्ना यन्मुनिसुन्दरत्वमविदां तादृक् तदेवातनु