________________
श्रीजिनस्तोत्ररत्नकोशः। १५७ स्तूयेत रत्नाकर इत्यमत्त्यैः ॥ १६ ॥ योषा सुरेखा त्रिदशेश्वरैः स्तुता
वामाऽज्यवामा जगतोऽपि साऽभवत् । प्रसूय या वां जिन विश्वबोधकं
रविं दिगैन्द्रीव सुखाचकार तत् ॥ १७ ॥ अचिन्त्यदानैर्लधिमानमर्हन्
नीतास्तथा कल्पनगास्त्वयाऽत्र । यथा किलोत्पाट्य समीरणेन
क्षिप्ता रजोवन्निखिलाः सुमेरौ ॥ १८ ॥ चलाचलत्वं भविनो भजन्ते
यात्राकृते पार्श्वविभो तवाऽर्हन् । सुखश्रियस्ते त्वचला लभन्ते
गुणाय दोषोऽपि हि ते प्रभावात् ॥ १९ ॥ खस्योदरे वा शिरसि स्थितान् वा
क्षमाभृतः पान्ति परेऽरिभीरून् । हृदि प्रविष्टः शिरसा धृतो वा