________________
१६. श्रीमुनिमुन्दरसूरिविरचितः। सम्पन्मुक्तेरपि च सुलभा ध्यायतो यत्पदाब्जं
स श्रीपार्श्वः सृजतु हृदये मे निवासं सदाऽपि ॥३॥ दत्सेऽत्रापि त्रिभुवनविभुस्त्वं पुमर्थत्रयाप्ति
प्रेत्य त्रैधं हरसि कृतिनां सर्वसंसारदुःखम् । तेन त्राणं सकलजगतां त्वां त्रियोगीविशुद्ध्या क्लेशव्यूहव्यपगमकृते नाथमेकं प्रपद्ये ॥ ४ ॥ भूम्यन्तर्गतवर्यदेवकुलिकासंस्थां स्रवन्ती पयो दृष्ट्वा स्वां सुरभिं चमत्कृतमना ज्ञाला सुराऽऽदेशतः । श्राडो यत्प्रतिमां फणालिरुचिरां प्राचीकटद्धान्धलः स श्रीमान् फणवर्द्धिभूषणमणिः पार्श्वप्रभुः पातु माम्॥५॥ देवादेशात्तव जिनपते कार्यमाणेऽत्र चैत्ये
श्राद्धापण्या शिवकरयुजा तेन चाल्पर्डिनाऽपि । निष्पन्नेऽस्यादिमवरमहामण्डपेऽथाग्रतस्तत्सिय यावद्रविणविरहाज्जग्मतुस्तौ विषादम् ॥६॥ तावत्प्रातर्जिन तव पुरः स्वस्तिकं रूपकाणां वीक्ष्यादायामरवरगिरा प्रत्यहं चैवमस्मात् ।