________________
१५२ श्रीमुनिसुन्दरसूरिविरचितः । तदर्थये तात मुहुर्मुहुस्त्वां
त्रैलोक्यचिन्तामणिमेकमेवम् । प्रदेहि किञ्चिन्मम तत्पुनर्न
येनार्थये वामपरं च नाथ ॥ २३ ॥ न कः स्तुते तारणदेवि भक्त
विपत्सरित्तारणकर्मठे त्वाम् । पासि प्रतीता रणनिर्जितारि
र्या तीर्थमेतज्जिनभाक्तिकांश्च ॥ २४ ॥ एवं तारणदुर्गभूषणमणेः कृत्वा स्तवं ते मुदा
दृष्ट्वा प्राग्मुनिसुन्दरस्तुतिततीलिखभावादहम् । याचे श्रीअजितप्रभो भवरिपुक्षेपाज्जयश्रीप्रदा
शुद्धां बोधिरमामनन्तमचिरा यो लभेऽहं यया॥२५॥ इति युगप्रधानावतारहत्तपागच्छाधिराजश्रीदेवसुन्दरसूरिश्रीज्ञानसागरसूरिश्रीसोमसुन्दरसूरिशिष्यैः श्रीमुनिमुन्दरसूरिभिर्विरचिते जयश्यके श्रीजिनस्तोत्र. रत्रकोशे प्रथमप्रस्तावे श्रीतारणदुर्गालङ्कारश्रीअजितस्वामिस्तोत्ररत्नं एकादशम् ।