________________
श्री जिनस्तोत्ररत्नकोशः ।
स्थेऽष्टप्रतिभुवि विमौ शक्नुयां नातिगन्तुं मोहस्याज्ञां स च तनुमतामर्द्दनैकस्वभावः । औदासीन्यं भजसि भगवंश्वेतदाऽऽज्ञावशेऽत्रानन्यत्राणे त्रिजगति कथं तद्भविष्याम्यहं ही ॥ १९ ॥ भक्ता यद्यपि सन्ति तेऽत्र बहवः प्रौढाः सुरेशादयो रङ्कं न्यस्य तथापि मामपि विभो पाल्यत्वचिन्ताऽध्वनि । भीष्म ग्रीष्मखरातपातितनूनासारतोऽद्रीन् यथा शैत्यं प्रापयतेऽम्बुदः किमु तथा नो वालुकायाः कणान् ॥२०॥ मोहेनास्मि वशीकृतो जिन भजे सम्यक् तवाज्ञां न चेत को दोषो मम तत्तत्रैव महिमा ह्येवं कलङ्कं श्रयेत् । भूतेन ग्रहिलीकृतो न कुरुते तत्सेवकः कोऽपि चेइत्ताज्ञां किल दूषणं सुमहतस्तन्मान्त्रिकस्यैव यत् ॥२१॥ तत्त्वं श्रीअजित प्रसीद तमरिं निर्जित्य मोहं ततस्तायिन्मोचय मां पदं नय निजं खं सेवकं भाक्तिकम् । किं तस्य प्रभुता प्रभोर्न ददते भक्तस्य यो वाञ्छितं युक्ता तेऽर्हविचारणा ननु जगचाणैकसन्धाभृतः ॥२२॥ किं भक्तः स नयः प्रभुं वशयितुं शक्नोति भक्त्याऽऽत्मनः । ॥ पाठान्तरम् ॥
@
१५१