________________
श्रीहनिमुन्दरसूरिविरचितः। द्विधाऽपि शत्रून जितशत्रुजन्मा
जिला भवानिवृतिमाप युक्तम् । ख्यातस्तु चित्रं विजयाङ्गजोऽपि
भक्तेषु भूमिर्विजयोद्भवस्य ॥ १५ ॥ कथं नु सम्यक् तव दर्शनाय
बुधा यतन्तेऽपि तपस्क्रियाऽऽथैः । जातं हि तद्यस्य न तस्य रूपं
विलोकते कश्चन लोचनाभ्याम् ॥ १६ ॥ अनादिमिथ्यात्वतमःप्रणाशतः
सुतत्त्वरत्नप्रकरप्रकाशतः। शिवप्रदं तात जगत्सुखाकरं
त्वमागमं दीपमदीदिपः स्थिरम् ॥ १७ ॥ अनन्तमोहप्रभवं निरस्य
विकल्पजालं भवपातहेतुम् । बदागमार्थामृतपानशर्म
लीनं मनो मेऽस्तु तव प्रसादात् ॥ १८ ॥