________________
श्रीजिनस्तोत्ररत्रकोशः । ॥ अर्हम् ॥
जय श्रीमन्नागहृदपुरवरालङ्कृतिमणे जिनेन्द्र श्रीपार्श्व त्रिभुवननुतानन्तमहिमन् । तव स्तोत्रं कुर्वे फणिफणमणीद्योतितपद प्रभो पद्मावत्यार्चित शिवफलं प्राप्तुममलम् ॥१॥ सृजन्ति यं दिव्यदृशो महर्षयस्तवं विभो तेऽहमपीममाद्रिये । तिमिङ्गिलाद्या यमुपासतेऽम्बुधिं
भजेत यत्पूतरकोऽपि तं न किम् ॥ २ ॥ गुणांस्तवैतान् भगवन्ननन्तान्
न मन्यते कः सुविमर्शदर्शी ।
कालं ह्यनन्तं न बुधैरनन्तै
१५३
ये गृह्यमाणा अपि यान्ति हानिम् ॥ ३ ॥ गुणाननन्तानपि ते यथा यथा गृह्णन्त्यभिज्ञा निदधत्यथो हृदि ।
तथा तथा निर्गुणतां भजन्त्यहो