________________
श्रीजिनस्तोत्ररत्नकोशः।
अशक्तपतौ तव नाथ संस्तवे
सुरेश्वराचा अपि नूनमासते। न तेऽपि कुर्वन्ति नतं स्वशक्तितः
शिवाशयेतीह ममापि सूद्यमः ॥ ३ ॥ विधीयमाना भगवन् गुणानां
स्तुतिस्तवाल्पाऽपि ददात्यभीष्टम् । सुधा यदल्पाऽपि निपीयमाना
नीरोगतां प्राणभृतां तनोति ॥ ४ ॥ अनन्तं ते ज्ञानं न पथि वचसा नापि च सुखं
न गम्यं ते रूपं न तव चरितस्याप्युपमितिः । गुणास्तेऽनन्तत्त्वाज्जिन न विषया वाचनसयो
ने शक्यं स्तोत्रं तत्तव तदपि यत्नोऽत्र फलवान् ॥५॥ न विश्वासः प्रोक्तेऽह्यनिखिलविदा शुद्धमनसा
भवेन्मोहग्रस्तो न पुनरखिलं वेदितुमलम् । वदन्यो नामोहः प्रभवति तवैवागमनिधि
भजन्ते याथाम्याफलमपि लभन्ते च कृतिनः ॥६॥