________________
१४८ श्रीमुनिमुन्दरमरिविरचितः ।
नैकोऽपि दृश्येत सुरान्तरेषु यः
स्फुरन्त्यनन्ता अपि ते गुणास्त्वयि । सुरदुमा ये बहवोऽपि नन्दने ___ भवन्ति सैकोऽपि मरौ किमाप्यते ॥ ७ ॥ न शस्यते कैः स कुमारभूपति___ स्तवात्र तीर्थामरवृक्षरोपणात् । सतां भवक्लेशजदुःस्थताभयं
जहार यो मुक्तिगमी भवद्वयात् ॥ ८ ॥ कुमारपालस्य कथं न मित्रं
गोविन्दसङ्घाधिपतिर्भवेत्सः । ग्रीष्मे कलौ म्लेच्छदवाग्मितापै.
स्तन्न्यस्तबिम्बापगमेन शुष्कम् ॥ ९ ॥ पुण्यद्रुमं तस्य नववदेत
द्विम्बप्रतिष्ठापनतस्तदर्थैः । जलप्रवाहैः किल योऽभिषिच्य प्रभोऽधुना पल्लवयाश्चकार ॥ १० ।
॥ युग्मम् ॥