________________
श्रीमुनिसुन्दरसूरिविरचितः ।
द्वैधद्वेषिजयश्रिया जिनपते श्रेयः श्रियः शाखतीः ॥२४॥ एवं श्रीइलदुर्गभूषणमाण श्रीमयुगादीश्वरं शकालीमुनिसुन्दरस्तवगणैर्नूतक्रमं यः स्तुते । सर्वाभीष्टसुखोच्चयैरविरतं स्फूर्जत्प्रमोदाइयो मोहद्वेषि जयश्रिया स लभते श्रेयोऽचिराच्छाश्वतम् ॥२५॥ इति युगप्रधानावतारवृहत्तपागच्छाधिराज श्रीदेव सुन्दरसूरिश्रीज्ञानसागरसूरि श्रीसोमसुन्दरसूरिशिष्यैः श्रीमुनिसुन्दरसूरिभिर्विरचिते जयश्यके श्रीजिनस्तोत्ररत्नकोशे प्रथमप्रस्तावे इलदुर्गालङ्कारश्रीऋषभदेवस्तोत्ररत्नं दशमम् |
१४३
॥ अर्हम् ॥
जयश्रीर्गर्भगे मातुर्यत्राभूदक्षदेवने । तिष्ठापयिषिते चात्र श्रीचौलुक्यमहीपतेः ॥ १ ॥ श्रीमत्तारणदुर्गस्थं श्रीमन्तमजितं जिनम् । जगज्जैत्रेण मोहेनाजितं तं संस्तुवे मुदा ॥ २ ॥ ॥ युग्मम् ॥