SearchBrowseAboutContactDonate
Page Preview
Page 155
Loading...
Download File
Download File
Page Text
________________ श्रीजिनस्तोत्ररत्नकोशः । १४५ श्रितस्त्वामेवाहं कुरु गतभयं मां करुणया ॥ २० ॥ अनादौ संसारे बहुलतमसा लुप्तमतिना मया निन्द्यं कर्म्म व्यरचि बहुधा क्लेशजननम् । इदं तत्सर्वं मे ऋषभ ऋषभेतीश जपतः प्रणाशं यातु द्राक् शिवपदरमा च श्रयतु माम् ॥२१॥ न कामः कल्पद्रौ न च सुरमणौ नामरघटे न विद्यायां मन्त्रे न हि न च सुराऽऽराधनविधौ । त्वमेवैकस्त्राणं त्वमसि शरणं त्वं गुरुरतो भवापायत्रस्ते मयि कुरु कृपार्द्रा जिन दृशम् ॥२२॥ नमस्तुभ्यं देवासुरमनुजनेत्राब्जरवये नमो लोकालोका कलन कुशलज्ञाननिधये । नमस्तुभ्यं सर्वेहितसुखकृतिप्रीतिजगते नमो विश्वापायव्यपनयविधिव्यग्रमनसे ॥ २३ ॥ स्तुत्वेत्यादिमदेवसुन्दरतरां भक्तिं दधत् त्वां मुदा श्रीज्ञानाम्बुधिसूरिभिः स्तुतपदं ज्ञानाणुनाऽप्यन्वितः । याचेऽहं गुरुसोमसुन्दरगुणव्याप्तत्रिलोकोदर १०
SR No.006112
Book TitleJain Stotra Sangraha Part 02
Original Sutra AuthorN/A
AuthorYashovijay Jain Pathshala
PublisherYashovijay Jain Pathshala
Publication Year
Total Pages266
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy