________________
श्रीजिनस्तोत्ररत्नकोशः। १३७ सुधां त्वदीया व्यतियाय सूक्तयः __ स्थिता रसैरत्र न कस्य संमतिः । निपीय ता यद्विबुधाः सुधाशनां
दिवं न वाञ्छन्ति शिवैकचेतसः ॥ १५ ॥ श्रुतोऽपि धर्मः कुरुते धृति सतां
त्वयरितोऽन्यैस्तु भयातुरां धियम् । किमीक्षितोऽप्यातनुते जलाशयो
न शीतिमानं, ज्वलनश्च संज्वरम् ॥ १६ ॥ त्वयैव सत्त्वरमा वशीकृताः
परैर्यदृच्छापहिलैर्विडम्बिताः। वसस्यतो यत्र हृदि त्वमेव ता
वसन्ति तत्रैव विभो किमद्भुतम् ॥ १७ ॥ सतां भवक्लेशरुजां क्षयात् परं __ न वै शुभानुष्ठितिषु प्रयोजनम् । रसायनं तत्र तवैव चागम
स्तदाऽऽभवं मेऽस्तु स एव सङ्गतः ॥ १८ ॥