________________
१३६ श्रीमुनिमुन्दरसारिविरचितः । उपासितारोऽस्य विमोहमायिनो
ध्रुवं वदन्ये तदधीतशक्तयः। अतत्त्वरूपानपि तात्त्विकानिव प्रदर्शयन्तेऽर्थगणान्निजाश्रवैः ॥११॥
॥ अर्थतोयुग्मम् ॥ भजेत यद्येन जिनास्वतन्त्रता
तदीशता तद्विजयानुयायिनी। स्फुटे तवान्यस्य च मोहराड् जया
जयार्पिते तज्जगदीशतेतरे ॥ १२ ॥ सुता विनेया अपि वीरसम्भवा
भवन्ति वीरा इति सर्वसम्मतम् । गिरोऽपि वीरस्य नु ते ऽ तिवीरता
भजन्ति विश्वाजितमोहनिर्जयात् ॥ १३ ॥ निरायुधः प्रोज्झितविग्रहः सभी
भवद्विषो युक्तमगाः शिवं पदम् । जयं तु मोहस्य जगत्रयीजित
स्त्वया कृतं वक्ति तवोक्तिरेव चेत् ॥ १४ ॥