________________
१३८ श्रीमुनिमुन्दरसूरिविरचितः । स्तुवे मनः स्वं तदधीतनैपुणं
गुरोर्लवादप्यतुलागमस्य ते । भवासुहृद्धीतिनिपातकातरं
भवन्तमेवोपजगाम यत्प्रभुम् ॥ १९ ॥ इदं चर्तुद्वारविशालमण्डपं
निरीक्ष्य चैत्यं तव भारतोत्तमम् । इमानि नन्दीश्वरकुण्डलादिगा
न्यपीक्षितानीव विभावयेद् बुधः ॥ २० ॥ चतुःपुमर्थाद्भुतशर्मसाधनं
स्तुतं चतुर्ज्ञानसमृद्धिबन्धुरैः। चतुर्गतिक्लेशविनाशहेतवे
चतुर्मुखं त्वां भगवन् प्रभुं भजे ॥ २१ ॥ भवान् यया पश्यति संविदा जग
वत्स्वरूपं हि तयैव गम्यते । तया समृद्धो भवतश्च नो पृथग्
ततो भवानेव भवद्गुणानवैत् ॥२२॥