________________
श्रीमुनिमुन्दरसूरिविरचितः। स्तवामरेन्द्रैरपि यन्न शक्यः । अनन्तमेतं यदनन्तशक्तिः __शक्नोति वक्तुं न जिनोऽपि पार्श्व ॥ २१ ॥ तव प्रभावाक्षयसेवधेर्नु
लवान् गृहीत्वाऽम्बुनिधेरिखान्दाः। खर्धेनुरत्नदुघटादयोऽर्थाः
प्रीणन्ति विश्वानि यथेष्टदानैः ॥ २२ ॥ घोरेऽधुना पार्श्व कलौ निदाघे
विनातपानि सतां मनांसि । कथं शमाप्स्यंस्तव मूर्तिरेषा
न चेत्सुधाकुण्डनिभाऽभविष्यत् ॥ २३ ॥ स्तवीम्यधिष्ठायकवर्गमेतं
नागाधिराट्तद्दयिताऽऽद्यमीश। तवांहिभक्तव्यसनापहारे
साहायकं यः सततं तनोति ॥ २४ ॥ इत्थं स्तम्भनकावतंस भगवन् श्रीपार्श्व विश्वप्रभो