________________
श्रीणिनस्तोत्ररत्नकोशः ।
स्वपापराशेश्व न यामि पारम् ।
ततो जगन्नाथ तथा प्रसीद
यथा तयोर्द्राक् तमुपैमि सम्यग् ॥१७॥
अनन्तपापैः पततो भवे मे
त्राता न कोऽप्यस्ति ततोऽतिखिद्ये ।
आराध्यसे यैस्तु यथावदेषा
मेकोऽसि पातेति मनाक् प्रमोदे ॥ १८ ॥
बिभेमि घोराद्भवदुःखराशे
-१३१
महं च तद्धेतुमलं न हातुम् ।
त्रातुं ततोऽनन्यगतिं प्रभुर्मी
पार्श्व त्वमेकोऽसि कुरूचितं तत् ॥ १९ ॥ शरीरवप्रेषु मनोगृहेषु
प्रविश्य मोहारिकुलानि जीवान् । गृह्णासि कैवल्यपुरेऽत्र हेतु - स्तवारिषड्वर्गमुचः कृपैव ॥ २० ॥
चित्रं न तद्वर्णयितुं प्रभाव