________________
श्रीजिनस्तोत्ररत्नकोशः। १३३ स्तुत्वा त्वां मुनिसुन्दरस्तव पदं याचेऽर्थिकल्पद्रुमम् । सप्ताप्याशुभयान्यपास्य सकलान्यत्राप्यमुत्राखिलक्लेशातीतमनन्तमव्ययपरानन्दं पदं देहि मे ॥ २५ ॥ इति युगप्रधानावतारवृहत्तपागच्छाधिराजश्रीदेवमुन्दरसूरिश्रीज्ञानसागरसूरिश्रीसोमसुन्दरमरिशिष्यैः श्रीमुनिमुन्दरसूरिभिर्विरचिते जयश्यके श्रीजिनस्तोत्ररत्रकोशे प्रथमप्रस्तावे श्रीस्तम्भनकावतंस.
श्रीपार्श्वस्तोत्ररत्वं अष्टमम् ।
॥ अहम् ॥ जयश्रीमन्दिरे सिद्धपुरे श्रीज्ञातनन्दनम् । चतूरूपं जिनं राजविहारालङ्कृति स्तुवे ॥१॥ जाने वरूपं न तव स्पृशन्ति
गिरः स्तुतिस्तेन कथं गुणानाम् । तथापि यत्नोऽत्र न मादृशोऽपि
विरुध्यते सोऽपि यतः फलाय ॥२॥