________________
श्री जिनस्तोत्ररत्नकोशः ।
भवन्ति सर्वेष्टरमावुवुर्षवो जिहासवो दूरमुपद्रवाश्च यम् । स्पृहाऽपि तस्यैव तव स्तवे भवेत् फलाय सत्कर्म्ममनोरथोऽपि यत् ॥ ११ ॥
सबोधिकारोग्यमुपेयमिच्छतां स्तुतिं तवैवौपयिकं जगुर्बुधाः । इति प्रयत्नो ऽत्र ममाप्ययं भवन् कृतार्थतामृच्छतु ते प्रसादतः ॥ १२ ॥
भवत्यसाराऽपि हि गीरनन्तसगुणे प्रयुक्ता मम विस्तरीष्यते ।
सरित्पतिं प्राप्य भवेत् प्रसारिणी
१२१
सरित्तनीयस्यपि नाभितः किमु ॥ १३ ॥
सुसम्पदस्ताः शुभशक्तयोऽपि वा त्वदेकभक्यव्यभिचारिहेतुकाः ।
ममापि सैषोऽनुभवः स्फुरन् कथं भिनत्ति ते पार्श्व नुतौ न मन्दताम् ॥ १४ ॥