________________
१२० श्रीमुनिमुन्दरसूरिविरचितः । अथ खबोधावधि ते स्तुतिं वद
नवाच्य एषोऽपि जनस्तदा तथा । यथेच्छमाक्रामतु खं सुपर्णसू
बलानुरूपं मशकोऽपि का क्षितिः ॥ ७ ॥ ततः कृता या तव दिव्यदृष्टिभि
महर्षिभिर्ब्रह्ममुखैश्च संस्तुतिः। तनोमि तामप्यहमल्पीधनः
खशक्त्यपेक्षा हि फलार्थिनां क्रिया ॥ ८॥ अधास्त्यपि द्वारमिदं फलाय य
ल्लवोऽप्यलं ते महिमाऽम्बुधः स्तुतः । महामयान् बिन्दुरपि प्रहन्ति वा
न किं सुधाया विधिनोपयोगभाग् ॥९॥ खशक्त्यशत्योरथ वौचिती न मे
विचारणे भक्तिवशस्य ते स्तुतौ । खयं भवान् भक्तजनेऽस्ति यत्प्रभुः समग्रचिन्तास्पददानदीक्षितः॥१०॥