________________
श्रीजिनस्तोत्ररनकोशः। ११९ इहाप्यहीन्द्रो धरणः प्रसत्तिभाक्
यया तनोतीष्टसुखानि सप्रियः । परत्र चाप्याः शिवसम्पदोऽपि तां
न का स्तुतिं पार्श्वविभोर्विधित्सति ॥ ३ ॥ गुणाननन्तान् क्रमवर्तिवाग् न ते
भवाम्यलं स्तोतुमितीश वेम्यहम् । तथापि ते भक्तिरसैकवेदनं
वेद्यान्तरं पार्श्व विचारमस्यति ॥ ४ ॥ अपारयन् वक्तुमयं जनः प्रभो
सतोऽपि ते ऽनन्ततयोज्वलान् गुणान् । कथं परेषु स्तुक्तोऽसतोऽपि तान् कुतीर्थिकांश्चित्रकृतो न वन्दते ॥५॥
॥ अथवा ॥ अशेषतो नाथ ममैव न स्तवै
में नूयसे किन्तु सुयोगिनामपि । न पूर्यते यः किल धूमरीकणे
स्तथैव सिन्धुः स सरिगणैरपि ॥ ६ ॥