________________
श्रीमुनिसुन्दरसूरिविरचितः ।
ब्रह्माद्वैतमयीं प्रदेह्यनुभवो यस्यास्तवैवार्हतः ॥२५॥ इति युगमधानावतारगृहतपागच्छाधिराजश्रीदेवसुन्दरसूरिश्रीज्ञानसागरसूरि श्रीसोममुन्दरसरिशिष्यैः श्रीमुनिसुन्दरसूरिभिर्विरचिते जयश्यके श्रीजिनस्तोत्ररत्नकोशे प्रथमप्रस्तावे अर्बुदगिरिश्रीऋषभस्तोत्ररत्नं षष्ठम् ।
११८
॥ अर्हम् ॥
जयश्रियं सर्वरिपून जिगीषतां
स्तुता यदाख्याऽपि तनोति मन्त्रवत् । स्तवीमि तं पार्श्वजिनं शिवश्रिये
श्रीजीरिकापल्लिवतंसमिष्टदम् ॥ १ ॥
प्रसथ मातः कुरु भारति स्थिरां हृदि स्थिति मे कविकल्पधेनुके । विधाय यत्पार्श्वजिनस्य संस्तुती
र्जनो लभेतायमपीप्सितं फलम् ॥ २ ॥