SearchBrowseAboutContactDonate
Page Preview
Page 132
Loading...
Download File
Download File
Page Text
________________ १२२ श्रीमुनिसुन्दरसूरिविरचितः । महामयाद्याखिलविघ्नभेदनात् प्रमाणमारोहति ते स्तुतिः स्वयम् । विभिन्दती तीक्ष्णमुखेन यत्पटं करोति सूच्येव हि मार्गमात्मनः ॥१५॥ प्रयत्न भाजामपि ते स्तवेऽग्रतः प्रवृत्तये स्युर्भवदिष्टसिद्धयः । सुखाकृताः शीतलवायुनाऽपि हि श्रयन्ति तृष्णातरलाः स्वयं सरः ॥ १६ ॥ विभिद्य बाह्यान्तरविनसंमिल त्कपाटयुग्मं परशुस्तव स्तवः । मनीषिणः केवलगोपुरे शिवा लये ध्रुवानन्दमये प्रवेशयेत् ॥ १७ ॥ पदं महिम्नां तव संस्तुतिं दधन्न दूयते दुःखभरैर्भवोद्भवैः । भृताञ्जलैः किं सरसीं समाश्रितः प्रदह्यतेऽरण्यभवैर्दवाग्निभिः ॥ १८ ॥
SR No.006112
Book TitleJain Stotra Sangraha Part 02
Original Sutra AuthorN/A
AuthorYashovijay Jain Pathshala
PublisherYashovijay Jain Pathshala
Publication Year
Total Pages266
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy