________________
११२
श्रीमुनिसुन्दरसूरिविरचितः ।
स्तोत्रमर्हति गुणी न कल्पितैर्नापि सद्भिरपरैः समैर्गुणैः ।
किन्तु सद्भिरसमैः स तु लमेवेति वीतभवभूयसे मया ॥ २ ॥
सोद्यमैः प्रकृतितस्तव स्तुतिः सर्ववाञ्छित करीति सूत्र्यते ।
तां विधाय च करोति कोऽपि नो कस्यचित् पुनरतो ऽलसैरपि ॥ ३ ॥
वेद्मि गौरव कृतो महर्षिभिर्न स्तुतस्य तव मादृशोक्तयः ।
तोष्यते ह्यपि कराहतैः शिशो
रम्बिकेति सफलस्वयं श्रमः ॥ ४ ॥
कोऽप्यरोपि जिनधर्म्मपादपो
दुःषमावधिजयी त्वया विभो । वाञ्छितोपनतया फलश्रिया
यः सुखाकरति विष्टपत्रयम् ॥ ५ ॥