________________
श्रीजिनस्तोत्ररत्रकोशः। १११ ज्ञानादित्रयशुद्धिमेव भगवन् याचे यतोऽन्तर्दिष
चक्रस्याप्तजयाश्रिया तव समां लक्ष्मी लभेयाचिरातू२६ एवं यो मतिमान् स्तुते जिनवरं श्रीमयुगादिप्रभु
शकालीमुनिसुन्दरस्तवगणैर्नूतक्रमाम्भोरुहम् । सर्वाभीष्टसुखोच्चौरविरतं स्फूर्जप्रमोदाऽवयो
मोहद्वेषि जयाश्रिया स लभते श्रेयोऽचिराच्छाश्वतम्॥२७॥ इति युगप्रधानावतारवृहत्तपागच्छाधिराजश्रीदेवसुन्दरसूरिश्रीज्ञानसागरसूरिश्रीसोमसुन्दरसूरिशिष्यः श्रीमुनिसुन्दरमरिभिर्विरचिते जयश्यके श्रीजिनस्तोत्र. रत्नकोशे प्रथमप्रस्तावे श्रीवृद्धनगरालङ्कार
श्रीऋषभदेवस्तोत्ररत्नं पश्चमम् ।
॥ अहम् ॥ श्रेयःश्रेणिनिदानं __ भवरिपुविजयश्रियाऽऽप्तशिवसौख्यम् । अर्बुदगिरिवरमुकुटं
श्रीऋषभं प्रभुमहं स्तोष्ये ॥१॥