________________
११०
श्रीमुनिसुन्दरसूरिविरचितः ।
यतो नदीमातृकदेशवर्त्तिनामवग्रहः सस्यरमां न शोषयेत् ॥२२॥
जगत्त्वदाज्ञां व्यजहात्कुकम्मभि
स्त्वयीश माध्यस्थ्यमुपास्थिते ततः । अनीश्वरं दुर्मततस्करैः कलौ
कदर्थ्यते तद्भवचारकस्थितम् ॥२३॥
बिभेमि तन्नाथ समीक्ष्य सांप्रतं
ततो निलीनोऽस्मि तवैव शासने । तदाश्रितं पालय मां निजं भव
भ्रमोद्भवक्लेशततेः कृपां कुरु ||२४||
अनादिमध्यान्तमगम्यमभ्रमं
यदर्थयन्ते मुनयः समाहिताः ।
त्वदेकनिष्ठं परमीश तन्मह
स्तवैव तेनोक्तिषु सुस्थिता बुधाः ॥२५॥ एवं श्रीऋषभेश वृद्धनगरालङ्कारचूडामणे स्तुत्वा त्वां गुरुसोमसुन्दरयशस्त्रैलोक्यकुक्षिंभरे ।