________________
श्रीजिनस्तोत्ररतकोशः। विमुच्यते कश्चिददृष्टबन्धनात् । विधस्त्वदन्योजगतोऽपि ते कथं
विमुक्तिकृत्वस्य परस्य वा ततः ॥२१॥ ययाऽन्वकम्पि त्रिजगत्त्वया प्रभो
न्यघानि भावारिगणश्च तज्जयी । विनैव तां साम्यकलां तव श्रियं
न विश्वसृष्टयादिभिरप्यगुः परे ॥२२॥ सचेतसोऽपि स्तुतिकारिणो निजान्
शिवं प्रदायापि करोष्यचेतसः। स्तुवन्ति युक्तं तत एव ते मुने
पुनर्भवन्तं न परं च कञ्चन ॥ २३ ॥ तथाऽप्यसाधारणसद्गुणस्तुतौ
रसेन भक्तेस्त्वमसि स्तुतो मया । न चैव तुष्यामि फलादतस्त्वहं __खभावमेनं च न हातुमर्हसि ॥ २४ ॥ श्रीसोपारकतीर्थभूषणमणे श्रीमयुगादिप्रभो