________________
श्रीमुनिसुन्दरसूरिविरचितः ।
भक्त्यैवं मुनिसुन्दरामरगुरुस्तुत्यो मयाऽपि स्तुतः । त्वं कर्मारिजयश्रिया मम परं श्रेयः प्रयच्छाचिरान्नित्यानन्दर माविलाससुभगं विश्वेष्टकल्पद्रुमः॥२५॥ इति युगमधानावतारवृहत्तपागच्छाधिराजश्रीदेवसुन्दरसूरिश्री ज्ञानसागरसूरि श्रीसोमसुन्दरसरिशिष्यैः श्रीमुनिसुन्दरसूरिभिर्विरचिते जयश्यङ्के श्रीजिनस्तोत्ररत्नकोशे प्रथमप्रस्तावे श्रीसोपारकतीर्थनाथश्रीऋषभदेवस्तवरूपं स्तोत्ररनं चतुर्थम् ।
१०४
॥ अर्हम् ॥
जयश्रियाSSढ्यो भरताधिनेता
यस्यादिमो लेप्यमय सुतोऽत्र ।
प्रातिष्ठिपज्जीवत एव मूति
मादिप्रभुं वृद्धपुरे स्तुवे तम् ॥ १ ॥ व्युत्पत्तिमेधाप्रतिभादयो गुणा न हेतवस्ते व्यभिचारिणः स्तुतेः । भक्तिस्तु हेतुस्तदतः प्रवृत्तिमा