________________
श्रीजिनस्तोत्ररत्नकोशः। ९९ हितस्य सम्यग् मुनिभिर्हितैषिणाम् । निषेव्य चैतफलमप्यलम्भि तैः __फलानुवादेन च हेतवे स्पृहा ॥ ५॥ हितार्थिपङ्क्तावयमप्यतो जनः
प्रभो निषीदन् पथमेनमादृतः। सुनिश्चितार्थेऽनुगते च पूर्वजैः
पथि प्रवृत्तिर्न विचारमर्हति ॥ ६॥ मनांसि केषामपि न स्पृशन्ति ते
स्वरूपमेषा सुधियां मृषा नु गीः। अनन्तशर्मात्मनि यत्त्वयि स्थिता
न्यमून्यमूहशि भवन्ति भाविनाम् ॥७॥ पुरेऽत्र नूनं सरसां मितिद्विषा
मधीयतेऽम्बूनि सरोरुहाणि च। यशःसमूहाद्विमलत्वमंशशः
प्रभो गुणेभ्यस्तव सौरभं पुनः ॥ ८॥ त्वदीयभक्तेः फलदानकौशलं