________________
१००
श्रीमुनिसुन्दरसूरिविरचितः ।
समीहमाना विविधा लता द्रुमाः । ध्रुवं तदभ्यासकृते फलान्यविश्रमं जनेभ्यो वितरन्त्यनेकधा ॥ ९ ॥ पतन्ति न क्षुद्रतनूभृतोऽत्र यत् पुरे स्वयोनिष्वपि कीटकादयः । इति प्रभो ते ऽतिशयान्मितेतरान् न कोऽपि मूर्त्तेरपि वक्तुमीश्वरः ॥ १० ॥ श्रीवज्रशिष्यात्किल वज्रसेनानागेन्द्रचन्द्रादिकुलप्रतिष्ठा ।
बभूव यस्मिन् भगवन् पुरस्ते
सोपारकं नन्दतु तीर्थमेतत् ॥ ११ ॥
यथेष्टसंवत्सरदानकाले
कल्पदुरत्नत्रिदशादिकेभ्यः । यमंशशोऽदा महिमानमुच्चै -
रेते तमद्यापि निदर्शयन्ति ॥ १२ ॥
मुग्धोऽसि नो तुष्यसि तीर्थिकेभ्यः