________________
श्रीमुनिसुन्दरसूरिविरचितः।
॥ अर्हम् ॥ जयश्रीसङ्गिनः पृथ्व्यां यस्याऽऽसीत्पूतमंहिभिः। तीर्थ सोपारकं तत्र तं स्तुवे वृषभप्रभुम् ॥ १॥ पुरेऽत्र चैत्ये भरतेश्वरः प्रभो
स्वकारिते स्वर्णमये तवाकृतिम् । अतिष्ठिपज्जीवत एव यस्य तं
स्तुवन्निहामुत्र च संश्रये शिवम् ॥ २ ॥ विभाति काव्यं न सतामलंकृती
विनाऽथ चासामुपमैव बीजति । न चास्ति सा नाथ जगत्रयेऽपि ते
तव स्तुतौ कः कवितागुणस्ततः ॥ ३ ॥ तव खरूपं न विकल्पयोनयः __ स्पृशन्ति शब्दास्तु विकल्पनाऽतिगम् । अबोद्धृभिस्तस्य कथं कृतिः स्तुते
वीतरागः स्तुतिभिश्च तुष्यसि ॥४॥ तथापि नाथौपयिकं न्यगाद्यदो