________________
श्रीजिनस्तोत्ररत्नकोशः। ९७ उज्जयन्तगिरिशेखर नेमे विश्वरक्षणचणाय नमस्ते ॥३१॥ एवं रैवतशैलमौलिमुकुटश्रीनेमिनेतर्जग
सर्वाभीष्टकरः स्तुतोऽपि मयका मुग्धस्तवेनाधुना । कारुण्यामृतवारिघे मम कृपापात्रस्य बोधिश्रियं
शुद्धां देहि जयश्रिया भवरिपोः स्याद् ब्रह्मलक्ष्मीर्यतः॥३२॥ एवं नेमिजिनं जगत्रयपतिं श्रीरैवतालकृतिम्
शक्रालीमुनिसुन्दरस्तवगणैर्नूतक्रमं यः स्तुते । सर्वाभीष्टसुखोच्चयैरविरतं स्फूर्जप्रमोदाऽद्वयो
मोहद्वेषि जयश्रिया स लभते श्रेयोऽचिराच्छाश्वतम्॥३३॥ इति युगप्रधानावतारवृहत्तपागच्छाधिराजश्रीदेवसुन्दरसूरिश्रीज्ञानसागरसूरिश्रीसोमसुन्दरसूरिशिष्यैः श्रीमुनिमुन्दरसूरिभिर्विरचिते जयश्यके श्रीजिनस्तोत्ररत्रकोशे प्रथमप्रस्तावे श्रीगिरिनारमौलि. मण्डनश्रीनेमिनाथस्तवनरूपं स्तोत्ररत्नं ।
तृतीयम्। संवत् १४७६ वर्षे, एतत् स्तवनद्वयमपि, सं०-देवराज सं०-हेमराज संघडसिंहसङ्घस्य सौवर्णकलशच्छत्रचामरायुपशोभितप्रौढश्रीजिनालयत्रयादिसामग्रीसमुपेतस्य सार्थेन कृतं तैर्देवान्
वन्दमानैरेव ।