________________
શ્રીઉપદેશસહસ્ત્રી–ગદ્યબંધ.
७४३
रिभवाक्रोशादिभिर्वचनैर्याहस्वभावमसंसर्गिणमविक्रियमच. लमनिधनमभयमत्यंतसूक्ष्ममविषयं गोचरीकृत्य स्प्रष्टुं नैवाहति असंसर्गिवादेव मम यत एव न शब्दनिमित्ता हानिवृद्धिर्वाऽतो मां किं करिष्यति स्तुतिनिंदादिप्रियाप्रिय स्वलक्षण: शब्दोऽविवेकिनं हि शब्दमात्मस्वेन गतं प्रियशब्दो वर्धयेदप्रियशब्दश्च क्षपयेदविवेकिस्वान्न तु मम विवेकिनो वालाग्रमात्रमपि कर्तुमुत्सहते इत्येवमेव स्पर्शसामान्येन तद्वि. शेषश्च शीतोष्णमृदुकर्कशादिज्वरोदरशूलादिलक्षणैश्चाप्रियः प्रियैश्च कैश्चिच्छरीरसमवायिभिर्बाह्यागंतुकनिमित्तश्च न मम काचिद्विक्रिया वृद्धि हानिलक्षणा अस्पर्शत्वात्क्रियते व्योम्न इव मुष्टिघातादिभिस्तथा रूपसामान्येन तद्विशेषैश्च प्रियाप्रियैः स्त्रीव्यंजनादिलक्षणैररूपत्वान्न मम काचिद्धानिर्वृद्धि, क्रियते तथा रससामान्येन तद्विशेषैश्च मधुराम्ललवणकटुतिक्तकषायैर्मूढबुद्धिभिः परिगृहीतैः प्रियाप्रियैररसात्मकस्य मम न काचिछानिवृद्धिर्वा क्रियते। तथा गंधसामान्येन तद्विशेषैश्च प्रियाप्रियैः पुष्पाद्यनुलेपनादिलक्षणैरगंधात्मकस्य न मम काचिद्धानिवृद्धिर्वा क्रियते । अशब्दमस्पर्शमरूपमव्ययं तथाऽरसं नित्यमगंधवञ्च यदिति श्रुतेः ॥ ३ ॥
તેમાં પ્રતીત થનારા શબ્દાદિવડે પીડાતે વિદ્વાન આવી રીતે વિચાર કરે. શબ્દ તે ધ્વનિના સામાન્યમાત્રવડે અથવા ષડ્રજાદિ વિશેષધર્મોવડે, સ્તુતિ આદિ પ્રિયવડે, ઈષ્ટ ને અનિષ્ટ 43, [तथा] २५सत्य मानल्स, परिभव [ने] २२ पापी, ઇત્યાદિ વચને વડે અસંસર્ગ, અવિકારી, અચલ, અવિનાશી,