________________
અભિપ્રાયે.
સ્થાનકવાસી મુનિશ્રીએ તરફથી મળેલમાં વધારા.
( पत्र प७५ भां लुखो ).
- श्रीमन्महावीराय नमः ॥ -
व्याख्यानसाहित्यसंग्रहनामधेयं पुस्तकमेतद्दृष्ट्वा स्वमनीषाचक्षुषा प्रमोद - दोहः सञ्जातो मम । अयि ! स्वपरराद्धांत हृदयावलोकनेन निष्पक्षपातत्वेन निर्भय - त्वेन च स्वशेमुषीगम्यविचित्रतन्त्राद्युद्धृतानेकविषयकामवद्यगद्यपद्यसूक्तिमौक्तिककदम्बकस्वच्छ।च्छप्रत्यक्षाक्षमालां गुम्फित्वा व्याख्यातॄणां कण्ठमलञ्चक्रे विनयविजयविभूषितै निरवद्यसद्यः फलात्मक सुविद्याधियोभिः श्रीविनयविजयैः । अस्मिन् नैर्ग्रन्थीये ग्रन्थे • षड् परिच्छेदावच्छेदके चित्रिताभिरुचिवतां सतां विविधबोधसम्प्राप्तिर्बोभविष्यति च । व्याख्यानकर्तॄणामयं ग्रन्थोऽतिशयोपयोगीति तथ्यम् । अथ चैतद्ग्रन्थविवेचकैः पवित्रतन्त्रोदधिं स्वकीयशुद्धधिषणामन्थानकेन प्रमथ्य सम्प्राप्तयथेष्टशिष्टत्वादिसम्पादकानेक विषयसुन्दरमणिवृन्दं समर्पितं विबुधानाम् । सत्यमेवेदमुदारचरितानां पूतं कर्त्तव्यं संघटते । तदेवानेकशास्त्रपरिशीलनफलं च । प्रायोऽस्य ग्रन्थस्य षड्परिच्छेदस्थानेक विषया विचारणीयाः सन्ति तथापि कतिपयाः परमाद्भक्तित्वसन्निग्रन्थत्वयतिशासनत्वात्म ज्ञानत्वाज्ञाभङ्गत्वोत्सूत्रप्ररूपकत्वादिविषया वाचनमनननिदिध्यासनत्वद्वारेण सादरं सुविमर्शनीया आदरणीयाश्च । एतग्रन्थविवेचकानां कोविदानां मुनिमहोदयानां श्रीविनयविजयानामुपरि सञ्जायते सम्प्रमोदः । तद्धर्षनिर्भर रभसानेकशः धन्यवादं समर्पयाम्यहं मुनिदेवचन्द्रः ।
कच्छाष्टकोटि बृहत्पक्ष संस्थितजैनमुनि देवचन्द्रः
સૂચના—અમે
૫૯૭
कच्छ- वागडंप्रान्तस्थ, चित्रकूट ( चीतोड) स्थः ।
પણ
આ ગ્રંથમાં ફક્ત ૬પ સર્ટીફીકેટા બહાર મેલી શકયા છીએ અને ખીજાં સંખ્યાબંધ શ્રેષ્ઠ રત્નસરાં સીંીકેટ અમારી પાસે હાજર સ્થાનસ કાચને લીધે મેલી શકયા નથી તેા હવે કાઇ ખીજે પ્રસ ંગે અથવા આ ગ્રંથના ત્રીજા ભાગને અંતે છપાવી સાહિત્યપ્રેમી નરરત્નાની સન્મુખ રજુ કરીશું.
प्राश.