________________
+++++++++++++++++++ नवार + + + + + + + + + + + + + + + + + ++ શાન પંચક तदेवं सप्रपञ्चं सम्यक्त्वं व्याख्याय सांप्रतं ज्ञानं व्याचिख्यासुराह - આમ સમ્યકત્વની સવિસ્તાર વ્યાખ્યા કરી. હવે જ્ઞાનની વ્યાખ્યા કરવા કહે છે.”
पंचविहावरणखयोवसमादिनिबंधणं इहं नाणं ।
पंचविहं चिय भणियं धीरेहिं अणंतनाणीहिं ॥८१५॥
(पञ्चविधावरणक्षयोपशमादिनिबन्धनमिह ज्ञानम् । पञ्चविधमेव भणितं धीरैरनंतज्ञानिभिः ।) पञ्चविधं यदावरणं मतिज्ञानावरणादि तस्य यः क्षयोपशम इत्यादिशब्दात् क्षयश्च तन्निबन्धनमिह ज्ञानं पञ्चविधमेव, तत्कारणस्यावरणक्षयोपशमादेरेतावद्भेदोपेतत्वात, कारणभेदनिबन्धनत्वाच्च कार्यभेदस्य, भणितं-प्रतिपादितं धीरैनन्तज्ञानिभिः-तीर्थकरैः ॥८१५॥
ગાથાર્થ:- ધીર અને અનંતજ્ઞાની તીર્થકરોએ કહ્યું છે કે મતિજ્ઞાનાવરણાદિ જે પાંચ પ્રકારના આવરણ છે, તેના ક્ષયોપશમાદિ (આદિશબ્દથી ક્ષયનો સમાવેશ થાય છે) થી ઉદ્ભવતું જ્ઞાન પાંચ પ્રકારે જ છે, કેમકે તે જ્ઞાનમાં કારણભૂત આવરણલયોપશમઆદિ પાંચ પ્રકારે જ છે. અને કાર્યભેદ કારણભેદપર આધારિત હેય છે. u૮૧પણા तदेव पंचविधत्वं ज्ञानस्य दर्शयति - જ્ઞાનના એ જ પાંચ પ્રકાર હવે દર્શાવે છે.
आभिणिबोहियनाणं सुयणाणं चैव ओहिणाणं च ।
तह मणपज्जवनाणं केवलनाणं च पंचमयं ॥१६॥ (आभिनिबोधिकज्ञानं श्रुतज्ञानं चैवावधिज्ञानं च । तथा मनःपर्यवज्ञानं केवलज्ञानं च पञ्चमयम् ॥ अर्थाभिमुखो नियतो बोधोऽभिनिबोधः अभिनिबोध एवाभिनिबोधिकम, अभिनिबोधशब्दस्य विनयादिपाठाभ्युपगमात् "विनयादिभ्य इकणि" त्यनेन स्वार्थे इकण्प्रत्ययो यथा-विनय एव वैनयिकमिति । “अतिवर्तन्ते स्वार्थे प्रत्ययकाः प्रकृतिलिङ्गवचनानीति" वचनात्त्वत्र नपुंसकलिङ्गता । अभिनिबुध्यते वा अनेनास्मात् अस्मिन्वा अभिनिबोधःतदावरणकर्मक्षयोपशमस्तेन निवृत्तमाभिनिबोधिकम् आभिनिबोधिकं च तत् ज्ञानं चेति विशेषणसमासः । तथा श्रूयत इति श्रुतं-शब्दः, श्रूयते वाऽनेन अस्मात् अस्मिन्वेति श्रुतं-तदावरणकर्मक्षयोपशमस्तन्निबन्धनं ज्ञानमप्युपचारात् श्रुतं, श्रुतं च तत् ज्ञानं चेति समासः । चशब्दस्तु अनयोः स्वाम्यादिसाम्यापेक्षया तुल्यकक्षतोद्भावनार्थः । स्वाम्यादिसाम्यं च क्रमप्रयोजनाधिकारे स्वयमेव वक्ष्यति । एवकारस्त्ववधारणार्थः, परोक्षत्वमनयोरवधारयति-आभिनिबोधिकश्रुतज्ञाने एव परोक्षे इति । अव-अधोऽधो विस्तृतं संपवस्तुजातं धीयते-परिच्छिद्यतेऽनेनास्मिन्नस्माद्वेत्यवधिः- तदावरणक्षयोपशमस्तद्धेतुकं ज्ञानमप्युपचारादवधिः, यद्वा अवधानमवधि:-रूपिद्रव्यमर्यादया परिच्छेदनम, अवधिश्चासौ ज्ञानं चेति विशेषणसमासः । चशब्दो वक्ष्यमाणस्थित्यादिसाधापेक्षया खल्वनन्तरोक्तज्ञानद्वयेन सहास्य साधर्म्यप्रदर्शनार्थः । तथा 'मनःपर्यवज्ञान' मिति, परिः-सर्वतो भावे, अवनम् अवः, 'तुदादिभ्यो न क्वा' वित्यधिकारे कितौ चेति औणादिकोऽकारप्रत्ययः, अवनं गमनं वेदनमिति पर्यायाः, परि अवः पर्यवः । पर्यय इति वा पाठः, तत्र पर्ययणं पर्ययो भावेऽत् (ल्) प्रत्ययः, मनसि .मनसो वा पर्यवः पर्ययो वा मनःपर्यवः मनःपर्ययो वा, सर्वतस्तत्परिच्छेद इतियावत् । अथवा मनसः पर्यायाः मनःपर्यायाः 'पर्यायाः भेदा धर्मा बाह्यवस्त्वालोचनप्रकारा इत्यनर्थान्तरम्' तेषु तेषां वा संबन्धि ज्ञानं मनःपर्यायज्ञानम् । तथाशब्दो वक्ष्यमाणच्छद्यस्थस्वामिसाधाद्यपेक्षया अवधिज्ञानेन सहास्य सारूप्यप्रदर्शनार्थः ।केवलज्ञानं चे ति, केवलम्-असहायं, मत्यादिज्ञाननिरपेक्षत्वात्, शुद्धं वा के वलं, तदावरणमलकलङ्करहितत्वात्, सकलं वा केवलं, प्रथमत एवाशेषतदावरणविगमतः संपूर्णस्योत्पत्तेः, असाधारणं वा केवलम्, अनन्यसदृशत्वात्, अनन्तं वा के वलं, ज्ञेयानन्तत्वात्, केवलं च तत् ज्ञानं च केवलज्ञानं, यथावस्थिताशेषभूतभवद्भाविभावस्वभावावभासि ज्ञानमितियावत् । चशब्दो वक्ष्यमाणाप्रमत्तयतिस्वामिसाधाद्यपेक्षयानन्तरोक्तज्ञानेन सममस्य सारूप्यप्रदर्शनार्थः ॥८१६॥
++++++++++++++++
A-MIN२ - 122+++++++++++++++