________________
+++++++++++++++++ + anal+++++ ++++++++++++
तम्हा मुत्तसस्वानुगमं मोत्तण णत्थऽमत्तस्स ।
गहणं तब्भावम्मि य एगंतेणं कहं भेदो? ॥६६२॥
(तस्मान्मूर्तस्वरूपानुगर्म मुक्त्वा नास्त्यमूर्तस्य । ग्रहणं तद्भावे च एकान्तेन कथं भेदः? II) तस्मान्मूर्तस्वरूपानुगम-मूर्तिमत्स्वारम्भकावयवस्वरूपानुगमनं मुक्त्वा नास्त्यमूर्तस्यावयविनो गृहणं, तद्भावे च मूर्तस्वारम्भकावयवस्वरूपानुगमभावे च कथमेकान्तेन द्विप्रदेशिकावयविपरमाणुद्वयोर्भेदः? किंत्वभेद एव, तथा च सति पूर्वोक्तानित्यत्वादिदोषप्रसक्तिरव्याहतप्रसरेति यत्किंचिदेतत् । किं च, तस्यावयविनः स्वारम्भकावयवेभ्यो जन्मापि न युक्त्योपपद्यते । तथाहि-परमाणव आकालमप्रच्युतानुत्पन्नस्थिरैकस्वभावाः । “सूक्ष्मो नित्यश्च भवति परमाणुरित्यादिवचनात्,” ततश्च यदि प्रागवयविनो व्यणुकादेर्न जनकास्ततः पश्चादपि तत्स्वभावानिवृत्तेरजनका एव, अन्यथा प्रागपि ते जनयेयुरिति । अपि च, यदि स्वारम्भकावयवेभ्योऽवयवी भिन्नः समुत्पद्यते ततः पञ्चपलपरिमाणसूत्रपिण्डादेः पटादिस्पार्थान्तरावयविनिष्पत्तौ तस्यापि महत्त्वेनाभ्युपगमात् तोलने तुलानतिविशेषो गृह्येत, न च गृह्यते, तत्कथमास्था तत्र विदुषाम् ? अथोच्येत-यथा जलान्मत्स्यस्य काष्ठाद्वा घुणस्यार्थान्तरभूतस्योत्पत्तावपि न जलादितोलने तुलानतिविशेषो भवति, जलादिना मत्स्यादिगुस्त्वस्य प्रतिबन्धात्, तथा पटादिस्पावयविगुरुत्वस्यापि सूत्रपिण्डादिना प्रतिहतत्वात् न तत्तोलने तुलानतिविशेषो भवतीति, तदप्ययुक्तम्, दृष्टान्तदान्तिकयोवैषम्यात् मत्स्यादयो हि न सकलं जलादिकमभिव्याप्यावतिष्ठन्ते
त तदेकदेशं ततोऽपान्तरालस्खलनेन जलादिना तद्स्त्व प्रतिबन्धसंभवात् तत्र तलानतिविशेषों न भवति, अयं च पुनरवयवी सर्वानपि स्वावयवानभिव्याप्यावतिष्ठते ततः स्वावयवैरपान्तरालस्खलनाभावेन तद्गुस्त्वप्रतिबन्धायोगादवश्यं तोलने तुलानतिविशेषो भवेत्, न च भवति, तस्मान्नावयवी कश्चिदर्थान्तरभूतः स्वावयवेभ्यः समुत्पद्यत इति । अन्यच्च, असौ पटादिकोऽवयवी एकोऽभ्युपगम्यते ततस्तदेकदेशचलने सर्वस्यापि पटादेश्चलनप्रसङ्गः, तस्यैकस्वरूपत्वात्, अचलने वा चलाचलतदेकदेशयोर्विरुद्धधर्मसंसर्गाढ़ेदप्रसङ्गः, न च वाच्यमत्रावयवश्चलनक्रियावान् नावयवी, ततो नोक्तदोषावकाश इति, अवयविनो विनाशप्रसङ्गात्, तथाहि-अवयवेषु चलनक्रियावत्सु विभागो जायते, तेन च विभागेन संयोगोऽसमवायिकारणं निवर्त्यते, तस्मिंश्च निवर्तिते सति अवयविनो विनाशप्रसङ्गः, निमित्तकारणं हि तन्तुवायादिकं निवर्तमानं पटादिकं न निवर्तपति, यत्त असमवायिकारणं संयोगः समवायिकारणं तु तन्त्वादि तन्निवर्तमानमवश्यं निवर्तयतीति । तथा एकस्यावयवस्यावरणे सर्वस्याप्यावरणप्रसङ्गः, आवृतैकावयवस्थावयविरूपादवयवान्तरस्थस्यावयविरूपस्याभिन्नत्वात्, अथानावृतावयवस्थमवयविरूपमनावृतमिव दृश्यते इति मन्येथाः, ननु तर्हि दृश्यमानावयविरूपाव्यतिरेकादावृतावयवस्थमप्यवयविस्पं दृश्येत, अन्यथा तयोर्भेदप्रसङ्गात्, अवयवस्यावरणं नावयविन इति यथोक्तदोषाभाव इति चेत् ? एवं तर्हि प्रभूतावयवावरणेऽपि तस्यानावृतत्वात् अनावरणावस्थायामिव सर्वात्मना दर्शनप्रसङ्गः । अथोच्येत-अवयद्वारे दर्शनमित्यदृष्टावयवस्याप्रतिपत्तिरिति, तदयुक्तम्, आवृतावयवस्थानावृतावयवस्थावयविस्मयोरभेदेन सर्वात्मना प्रतिपत्तिप्रसङ्गस्य परिहर्तुमशक्यत्वात् । न चार्वाग्भागापरभागादयः सर्वेऽप्यवयवा युगपदुपलब्धुं शक्यन्ते, ततोऽवयवदर्शनद्वारेणावयविनो दर्शनाभ्युपगमे सर्वदैवास्यादर्शनप्रसङ्गः, रक्ते चैकस्मिन्नवयवे तत्स्थस्यावयविरूपस्यावयवान्तरेऽप्यभेदेन भावात् सर्वत्रापि रागप्रसङ्गो न वा क्वचिदपि । अवयवस्य रागो नावयविन इति चेत् ? नन्वेवं तर्हि अवयवरूपं रक्तमवयविस्पं चारक्तमित्येवं रक्तारक्ततयोपलम्भः स्यात्, न चासावस्तीति बालिशजल्पितमेतत् । अपि च, चतुरश्रा(सा)वयवि द्रव्यं येन प्राग्देशेन व्याप्तं तं प्राग्देशं परिच्छिन्दता प्रत्यक्षेण तस्याभावो व्यवच्छिद्यते, अन्यथा स एव परिच्छिन्नो न भवेत्, यदपि च प्रत्यग्लक्षणं देशान्तरं तदपि तेन व्यवच्छिद्यते, तस्य तदभावाव्यभिचारित्वात्, चतुरश्रा(सा)वयवि द्रव्यस्मं चैकमभ्युपगम्यते ततो यदेव तद्रपं प्राग्देशेन व्याप्तं तदेव तदभावेनापि व्याप्तमित्यायातं, तस्य प्रत्यगदेशेनापि व्याप्त्यभ्युपगमात, अन्यथा तस्यावयविद्रव्यरूपस्य चतुरश्र(स)स्य एकत्वाभ्युपगमक्षितिप्रसङ्गात्, प्रत्यगदेशस्य च प्राग्देशाभावोपेतत्वात, न चैतद्युक्तम्, एकत्र विधिप्रतिषेधयोर्युगपदसंभवात् । तन्न कश्चित्परपरिकल्पितोऽवयवी घटते इति ॥६६२॥ .
ગાથાર્થ:- તેથી મૂર્તસ્વરૂપના અનુગમ વિના અમૂર્તઅવયવીનો બોધ સંભવે નહિ. અને તે હોય, તો એકાત્તભેદ કેવી રીતે હોય? આમ ઉપરોક્ત ચર્ચાથી પોતાના કારણભૂત એવા મૂર્તઅવયવોના સ્વરૂપના બોધ વિના અમૂર્ત અવયવીનો બોધ ++++++++++++++++ AGE-GUR२ . 54 + + + + + + + + + + + + + * *