________________
श्री संतरिक्ष पार्श्वनाथता MAMAAAAAAAAAAAAAAAAAAAAAAAAAAAAAAM
श्री अंतरिक्षपार्श्वनाथस्तोत्रम्
__ उपजातिवृत्तम्।
।।1।।
श्री पार्श्वनाथं भुवि सुप्रसिद्धं, वैदर्भदेशे सुविशालकीर्तिम्। अस्पृष्टभूमिं सुयथार्थनामं, श्री अंतरिक्षं शिरसा नमामि विभूषितं श्रीपूरमध्यभागं, पातालगर्भगृहसंस्थितं यः। . अनेकभक्तार्पितभक्तिपुष्पं, श्रीअंतरिक्षं शिरसा नमामि
।।2।।
.
लङ्कापतेर्बाहुविभूषित यत्, बिम्बं जिनेन्द्रस्य सुभूतकाले । चमत्कृतिर्यस्य जने प्रसिद्धं, श्रीअंतरिक्षं शिरसा नमामि ।।3।।
वाराणसी यस्य सुजन्मभूमि-र्वामाकुले सूर्य इव प्रदीपः। .
पूज्यं मनोवाञ्छितपूरकं तं, श्रीअंतरिक्षं शिरसा नमामि ।।।4।। फणीन्द्रविस्फारितमातपत्रं, सुशोभितं सुंदरश्यामवर्णम्। । आकृष्टभक्तालिमुखारविन्दं, श्रीअंतरिक्षं शिरसा नमामि ।।।।
सत्योपदेष्टा कमठस्य पार्थो, मन्त्रामृतेनोद्धरित: फणीन्द्रः ।
सुरेन्द्रसंपूजितदेवदेवं, श्रीअंतरिक्षं शिरसा नमामि धर्मोपदेष्टा भुवि भाविकानां तीर्थंकर: संघविधायको यः । धर्मस्य संस्थापकधर्ममूर्ति, श्रीअंतरिक्षं शिरसा नमामि ।।7।।
भक्तस्य वाञ्छा भुवि भाग्यलक्ष्मी-विधायको यः परमार्थसिद्धेः । मोक्षस्य दाता परमं पवित्रं, श्रीअंतरिक्षं शिरसा नमामि ।।8।।
- बालेन्दु
।।6।।
पपपपOUUUUR७४yy