________________
२२. हेमचन्द्रसूरिचरितम् ।
२०९
२७. अन्येद्युरुपदिष्टे च सम्यक्त्वे सङ्घसाक्षिकम् । राजा गृहीते गुरुभिर्गाथामेनां स जल्पितः ॥ ७६७ ।।
तथा हि
तुम्हाण किंकरो हं तुम्हे नाहा भवोयहिगयस्स |
सयलधणाइसमेओ मइँ तुम्ह समपिओ अप्पा ॥ ७६८ ॥
553
5
व्याख्यातायामथैतस्यामर्थं सत्यापयन्नृपः । राज्यं समर्पयामास जगदुर्गुरवस्ततः ॥ ७६९ ॥ निस्सङ्गानां निरीहाणां नार्थो राज्येन नो नृप ! । आपिबामः कथं भोगान् वान्ताननुचितं ह्यदः ॥ ७७० ।। एवं विवादसम्बाधे दानाग्रहणकारणे । गुरु-भूपालयोर्मश्री' वैशिष्ट्यमकरोदिदम् ॥ ७७१ ॥ सर्वाणि राजकार्याणि कार्याण्यश्रावितानि न । अतः परं प्रभो राज्ये भूयादनुमतं ह्यदः ।। ७७२ ॥ प्रतिपन्ने ततः श्राद्धव्रतसङ्ख्यानहेतवे । भूपस्याध्यात्मतत्त्वार्थावगमाय च स प्रभुः ॥ ७७३ ॥ योगशास्त्रं सुशास्त्राणां शिरोरत्नसमं व्यधात् । अध्याप्य तं स्वयं व्यक्तं तत्पुरश्च व्यचारयत् । - युग्मम् । 10 २८. जग्राह नियमं राजा दर्शनी जिनदर्शने । यादृशस्तादृशो वा मे वन्द्यों मुद्रेव भूपतेः ॥ चतुरङ्गचमूमध्ये राजा राजाध्वना व्रजन् । गजारूढोऽन्यदाऽद्राक्षीज्जैनषिं वेश्यया समम् ॥ क्षुरलूनशिरःकेशं सितवैकक्षकावृतम् । कस्तीरास्तीर्णसध्वानपत्रद्धारूढपादकम् ॥ ७७७ ।। अतुल्यफणभृद्वल्लीदलबीटकहस्तकम् । आलम्बितभुजादण्डमंसेऽस्या मन्दिराद् बहिः ॥ - त्रिभिर्विशेषकम् । कुम्भयोर्न्यस्य मूर्द्धानं तं ननाम महीपतिः । पृष्ठासनस्थितश्चक्रे नड्डूलनृपतिः स्मितम् ॥ ७७९ ॥ ददर्श वाग्भटामात्यस्तत् प्रभोश्च न्यवेदयत् । ततो राज्ञः पुरः पूज्या इत्थं धर्मकथां व्यधुः ॥ ७८० ॥
७७५ ॥
७७६ ॥
15
तथा हि
पासत्थाइ वंदमाणस्स नेव कित्ती न निज़रा होइ ।
काय किलेस एमेव कुणइ तह कम्मबंधं वा ॥ ७८१ ॥
25
व्यमृशद् भूपतिः केनाप्यद्य वृत्तं निवेदितम् । व्यजिज्ञपश्च पूज्यानां शिक्षाभिर्निर्वृतो ऽस्म्यहम् ॥ ७८२ ॥ 20 इतश्च पृथिवीशक्रनमस्कारमुदीक्ष्य सः । दध्यावध्यासचैतन्यं का मय्यस्ति नमस्यता ॥ ७८३ ॥ विध्वस्तवीतरागाज्ञे' त्यक्तभोगपुनर्ग्रहे । अदृश्यास्ये प्रतिज्ञाया भ्रष्टे दुर्गानामनि ॥ ७८४ ॥ - युग्मम् । अमुचद् भुजमस्याश्च चापतुल्यं मनोभुवः । कुधियां पेटकं वाथ बीटकं व्रतकण्टकम् ॥ ७८५ ॥ नरकाध्वनि यानाभे मुमोचायमुपानहौ । विरागी स्वाश्रयेऽगच्छतुच्छं स्वल्पभर्तृकः ॥ ७८६ ॥ पुनर्प्रतं समुच्चार्य गुरूपान्ते महामनाः । सङ्गत्यागाद्नशनप्रत्याख्यानी बभूव सः ॥ ७८७ ॥ निजैरनेकधाऽप्युक्तो दृढो नासौ निजामहात् । पश्चाद् व्याजुघुटे द्रोणीमन्धौ लब्धां हि कस्त्यजेत् ॥७८८ ॥ अनशन्याश्रयास्तत्र प्रावर्त्तन्त प्रभावनाः । वरिवस्यां तपस्यायाः श्रेयोर्थी कः करोति न ।। ७८९ ॥ विज्ञप्तेऽधिकृतैस्तत्र भूपो नन्तुं तपोनिधिम् । अभ्याययौ प्रमोदेन सान्तःपुरपरिच्छदः ॥ ७९० ॥ यावत् पश्यति तद्वक्त्रं तावद् दृष्टः स एव यः । पण्याङ्गनागृहद्वारे कुवेषोऽपि नतस्तदा ॥ ७९१ ॥ तद्गुरून् मुनिवर्गं च नत्वा भूपालपुङ्गवः । तत्पादौ प्रणमंस्तेन निषिद्धो भुजधारणात् ॥ ७९२ ॥ महाराज ! गुरुस्त्वं मे भवान्धेस्तारितस्त्वया । तव विश्वेऽपि वन्द्यस्य प्रणामो ह्यतिदुर्जरः ।। ७९३ ।। मादृशा भ्रष्टचारित्रा विराधितजिनोक्तयः । आराधकाः कथं नु स्युः स्फुरन्नरकदौहृदाः ॥ ७९४ ॥
1D मैत्री । 2 N स्वयं चक्रं । 3 N वेद्यो । 4 N शिष्याभिर्निवृतो । 5 N रागांये ।
प्र. २७
30