________________
544
.
15
२००
प्रभावकचरिते वयं हि तस्य वक्तारः स्वामिना करणे पुनः । प्रमाणं स्वरुचिर्नाथ ! तत्कुरु प्रतिभासितम्॥४८८॥ अथाह विक्रमो वह्नियत्रं प्रकुरुताधुना । मत्सौधेऽसौ यथावश्यमक्लेशेन विनश्यति ॥ ४८९ ॥ 'व्यचारयन्निमित्तं ते निजावासेऽग्निदीपनम् । प्रागल्भ्यात् कुमतेरेतद्' विनाशस्यैव सूचकम् ॥ ४९० ॥ किं च प्रविदधामोऽत्र दुर्लघ्या भवितव्यता । राज्योच्छेदोऽस्य सम्पन्नो भूपालो विजयी पुनः ॥ ४९१ ॥ श्रीसिद्धाधीशपट्टे यः प्राच्यपुण्यैर्निवेशितः । एतत्सदृशभृत्यानां नासौ योग्यो भविष्यति ॥ ४९२ !! एवं विमृश्य तेऽवोचन हस्तस्पृष्टललाटकाः । स्वाम्यादेशः प्रमाणं नः कार्या नाऽत्र विचारणा ।। ४९३ ।। सूत्रधारैस्ततो भूम्यन्तरा सौधं निवेशितम् । ऊर्ध्वं च स्तम्भपट्टादि चलं वस्त्राश्चलोपमम् ॥ ४९४ ॥ तस्योपरि प्रतिसीरापावारास्तरणास्तृताः। मण्डिता विततोल्लोचाऽवचूलैः पद्मकैस्तथा ॥ ४९५ ॥ मौक्तिकैः कुसुमैर्गुच्छैर्विच्छन्दकशतैरपि । सुन्दरा तत्र शय्या च सूत्रतन्तुमयाऽरचि ॥ ४९६ ॥-युगमम् । एकत्र कीलके कृष्टे' तत्सर्व गर्तमन्दिरे । खदिराङ्गारसंपूर्ण भस्मीभवति तत्क्षणात् ॥ ४९७॥ एवं निवेद्य ते नेत्रे नेत्रे बाष्पप्लते दधुः। तन्नायकोऽप्युवाचैवं मतिः कार्यप्रसाधिका ॥ ४९८॥ असौ यथा तपस्वीरक्शय्यायां चङ्गभनिभिः' । आक्षिप्ताक्षो निवेश्येत तदास्याधोगते' मृतिः॥ ४९९।। इति प्रातर्विचिन्त्यायमायाच्छिबिरमध्यतः । राजपादान् नमश्चक्रेऽवनीलुठनपूर्वकम् ॥ ५००॥ विज्ञो विज्ञपयामास मारवो मण्डलेश्वरः । दम्भात् सुधां मुखे बिभ्रद् विषपूर्णो घटो यथा ।। ५०१ ॥ अलंकुरुत हयं मे प्रसादः क्रियतां प्रभो!। तत्र प्रत्यवसानेनावसानेनाद्य दुःस्थितेः॥ ५०२॥ ध्यात्वेति धीनिधिभूपो मारवेषु न विश्वसेत् । प्राह नः परिवारः प्राग् भुक्तामनु वयं ततः ॥ ५०३ ।। क एवं हि हितान्वेषी स्वामिभक्तश्च दृश्यते । परमारकुलोद्भुतं भवन्तमभयं विना ॥ ५०४॥ तत्र कः प्रतिषेद्धास्ति शुभे कार्ये महाधर!। अस्माकं भवदावास एव योग्यो विलोकितुम् ॥ ५०५॥ स्वाध्यादेशः प्रमाणं मे इति प्रोच्य परिच्छदम् । भक्तोऽसौ भोजयांचक्रेऽपराहावध्यबाधया ॥ ५०६ ।। अङ्गरक्षास्ततः स्वामिमूर्तिरक्षासदोद्यताः । आहतास्तत्समस्तं च कुट्टिमं प्रकटीकृतम् ॥ ५०७ ॥ यत्रासन्नः पुमानेको वृद्धो मतिमतां पतिः । आजिघ्रन् गन्धमत्युग्रं ध्माताङ्गारगणस्य सः ॥ ५०८॥ विममर्श निजस्वान्ते विज्ञानं किश्चिदद्भुतम् । तत्रास्ते वह्निसम्बद्धं प्रभुद्रोहस्य" कारणम् ।। ५०९॥ ततस्तं विक्रमः साभिप्रायं दृष्टिविकरितः । परिज्ञायातिसच्चक्रे वक्राशयशिरोमणिः ॥ ५१० ॥
ययौ विक्रमसिंहोऽथ सह तेनैव मन्दिरम् । राज्ञः प्राह च मत्सौधे नाथ ! पादोऽवधार्यताम्॥५११॥ 25 अथ भ्रसञ्ज्ञया तेन न्यषेधि गमनं प्रति । भूपतिः प्राह तत्रं मे समस्तं भोजितं त्वया ।। ५१२ ॥
वयं तु प्राकृत्रियामाया चिन्ताजागरपीडिताः । अधुनाऽभ्यवहारेषु" नाभिलाषुकचेतसः ॥ ५१३ ॥ मुहूर्त्तश्चापि दैवज्ञैः प्रयाणाय विचारितः" । संप्रत्येव ततो ढक्का वाद्या प्रस्थीयते यथा ॥ ५१४ ॥ त्वमपि स्वां चमूं सज्जीकृत्य कृत्यविशारद ! । शीघ्रमागच्छ न च्छेका जृम्भायन्ते त्वरायिते ॥५१५।।
अन्तःशङ्कां वहन्नोमित्युक्त्वा च प्रययौ स्वकम् । धाम ज्ञातमिवायं स्वं विमृशन" चेतसि क्षणम् ॥५१६॥ 80 झटित्येव प्रतस्थे च स्कन्धावारः" प्रभोस्तदा । अचिराद रिपुदुर्गस्योपकण्ठे शिबिरं दधौ ॥ ५१७॥
स यथास्थानमातस्थौ शिबिरस्य निवेशनम्" । अहर्दिवं प्रहरके जापव्ययभटोद्धरम् ।। ५१८॥
20
1N प्रतिभाषितं । 2 B विचारयन्नि। Nकुमारेतत् । 4 N कुष्टे । 5 B चंगभंगिनः। 6 D निविश्येत । 7 B तदाधोवगतेम॒तिः। 8 A प्रत्यवसानेनाव्यसनेनाथ: B प्रत्यवसानेनावसीनेनाद्य । 90वांतेति। 10 A प्रभोद्रोहस्य; N प्रभुविद्रोहका। 11 B 'भ्यवहारे तु। 12 N निवेदितः। 18 N तच्छेका । 14 A Mभायां चरितायते; N जंभायंते खरायते । 15 A व्यमृशन् । 16 A स्तंभाचारप्रभो', D स्वाचारN संवाचाट। 17 N निकेतनं ।