________________
१८४
प्रभावकचरिते
528
5
10
15
अलंध्यत्वाद् गुरोर्वाचामाचारस्थितया तया । दूनयापि सुतः स्नेहादाय॑त स्वप्नसंस्मृतेः ॥ ३१ ॥ तमादाय स्तम्भतीर्थे जग्मुः श्रीपविमन्दिरे । माघे सितचतुर्दश्यां ब्राझे धिष्ण्ये शनेर्दिने ॥ ३२ ॥ धिष्ण्ये तथाष्टमे धर्मस्थिते चन्द्रे वृषोपगे । लमे बृहस्पतौ शत्रुस्थितयोः सूर्यभौमयोः ॥ ३३ ॥ श्रीमानुदयनस्तस्य दीक्षोत्सवमकारयत् । सोमचंद्र इति ख्यातं नामास्य गुरवो दधुः ॥ ३४ ॥ संचस्करुः परिस्कारान् प्रजाप्य परमाक्षरैः । आईतस्तेऽहमर्हाणां तमेकप्रणिधानतः !! ३५ ॥ अथैत्य' मिलिते कोपकलिते कटुभाषिणि । चाचे प्राचेतसाभस्तमयं प्राशमयत् स्वयम् ॥ ३६ ॥
सोमचन्द्रस्ततश्चन्द्रोज्वलप्रज्ञाबलादसौ । तर्क-लक्षण-साहित्यविद्याः पर्यच्छिनद् द्रुतम् । ३७ ॥ ६३. अन्यदाऽचिन्तयन् पूर्व परो लभूपदानुगः । आसीदेकपदात् तस्माद्धिगस्मानल्पमेधसः ॥ ३८॥
तत आराधयिष्यामि देवी काश्मीरवासिनीम् । चकोरद्विजरोचिष्णुं ज्योत्स्नामिव कलावतः ॥ ३९ ॥ इति व्यज्ञपयत् प्रातः प्रभु विनयनम्रवाक । संमुखीनागमं देव्या ध्यात्वा सोऽप्यन्वमन्यत ॥४०॥ गीतार्थः साधुभिः सार्धं धाम विद्याब्रजस्य च प्रस्थानं तामलिप्त्याःस ब्राह्मीदेशोपरि व्यधात्॥४॥ श्रीरैवतावतारे* च तीर्थे श्रीनेमिनामतः । साथै 'माधुमते। तत्रावात्सीदवहितस्थितिः ॥ ४२ ॥ निशीथेऽस्य विनिद्रस्य नासामन्यस्तचक्षुषः। आराधनात् समक्षाऽभूद् ब्राह्मी ब्रह्ममहोनिधेः॥ ४३ ।। वत्स स्वच्छमते ! यासीन् मा स्म देशान्तरं भवान् । तुष्टा त्वद्भक्तिपुष्ट्याऽहं सेत्स्यतीहितमत्र ते ॥४४॥ . इत्युक्त्वा सा तिरोधत्त देवी वाचामधीश्वरी । स्तुत्या तस्या निशां नीत्वा पश्चादागादुपाश्रयम् ॥-युग्मम् । सिद्धसारस्वतोऽकेशात् सोमः सीमा विपश्चिताम् । अभूदभूमिरुन्निद्रान्तरवैरिकृतद्रुहः ॥ ४६॥ प्रभाषकधुराधुर्यममुं सूरिपदोचितम् । विज्ञाय सङ्घमामव्य गुरवोऽमत्रयन्निति ॥ ४७ ॥ योग्यं शिष्यं पदे न्यस्य स्वकार्य कर्तुमौचिती । अस्मत्पूर्वेऽमुमाचारं सदा विहितपूर्विणः ॥ ४८ ॥ तदैव विज्ञदेवज्ञवजालमं व्यचारयत् । विमृश्य तेऽथ व्याचक्रुः सर्वोत्तमगुणं क्षणम् ॥ ४९ ॥ जीवः कर्के तनौ सूर्यो मेषे व्योम्नि बुधान्वितः । चन्द्रो वृषे च लाभस्थो भौमो धनुषि षष्ठगः ॥ ५० ॥ धर्मस्थाने झपे शुक्रः शनिरेकादशो वृषे । राहुस्तृतीयः कन्यायां विश्वविघ्नविनाशकः ॥ ५१ ॥ इति सर्वप्रहबलोपेतं लग्नं समृद्धिकृत् । होरा चान्द्री ततः पूर्वा द्रेष्काणः प्रथमस्तथा ॥ ५२ ॥ वर्गोत्तमः शशांकांशो नवमो द्वादशस्तथा । त्रिंशांशो वाक्पतेः षष्ठो लग्नेऽस्मिन् गुणमण्डिते ॥ ५३ ।। च । राज्ञां ज्ञातो जगत्पूज्यः स भवेद् विश्वशेखरः ॥ ५४ ॥
-पंचभिः कुलकम् । अथ वैशाखमासस्य तृतीयामध्यमेऽहनि । श्रीसङ्घनगराधीशविहितोत्सवपूर्वकम् ॥ ५५ ॥ मुहूर्ते पूर्वनिर्णीते कृतनन्दीविधिक्रमाः । ध्वनत्तूर्यरवोन्मुद्रमङ्गलाचारबन्धुरम् ॥ ५६ ॥ शब्दाद्वैतेऽथ विश्रान्ते समये घोषिते सति । पूरकापूरितश्वासकुम्भकोद्भेदमेदुराः ॥ ५७ ।। श्रवणेऽगरुकर्पूरचन्दनद्रवचर्चिते । कृतिनः सोमचन्द्रस्य निष्ठानिष्ठान्तरात्मनः ॥ ५८ ॥ श्रीगौतमादिसूरीशैराराधितमबाधितम् । श्रीदेवचन्द्रगुरवः सूरिमत्रमचीकथन् ॥ ५९ ॥
-पंचभिः कुलकम् । तिरस्कृतकलाकेलिः कलाकेलिकुलाश्रयः । हेमचन्द्रप्रभुः श्रीमान्नाम्ना विख्यातिमाप सः ॥ ६ ॥ तदा च पाहिनी स्नेहवाहिनी सुत उत्तमे । तत्र चारित्रमादत्ताविहस्ता गुरुहस्ततः ॥ ६१ ॥
20
30
1 N अथेत्य। 2N प्रोचे। 3N साधुमते । * 'उज्जयंततीर्थ' इति D टिप्पणी। 'सारखते' इति D टि०14 N व्याचख्युः A B व्याचक्षुः। 5 N षष्ठमः । 60 वैश्वविघ्नविनाशनः। 7N मस्ततः ।