________________
१६८ प्रभावकचरिते
512 श्रुत्वेति बहुमानाद्रेरिव तैराददे वचः । आयास्यते पुरे तत्र मा चिन्ताऽत्र विधीयताम् ॥ ३० ॥ महाबोधपुरे बौद्धान् वादे जित्वा बहूनथे । गोपालगिरिमागच्छन् राज्ञा तत्रापि पूजिताः ॥ ३१ ॥ परप्रवादिनस्तैश्च जितास्तेषां च भूपतिः । छत्र चामरयुग्मादिराजचिह्नान्यदान्मुदा ॥ ३२ ॥ व्यावृत्यार्थ' निजां भूमिमायान्तस्तेऽवतस्थिरे । मुरे नागपुरे तत्राप्यकार्युश्च प्रभावनाः ॥ ३३ ॥ ज्ञात्वाथ सिद्धराजेनाहूता भक्तिभृताऽथ ते । प्रैषुः परिच्छदं गोपगिरिराजसमर्पितम् ॥ ३४॥ विजहुः सूरयस्तस्माच्छनैः संयममात्रया । अपहिल्लपुरासन्नं चारूपग्राममागमन् ॥ ३५ ॥
अभ्युद्ययावथ श्रीमजयसिंहनरेश्वरः । प्रवेशोत्सवमाधत्तादृष्टपूर्व सुरैरपि ।। ३६ ॥ ६२. अथात्र वादिसिंहाख्या सांख्यवादी समागमत् ।
पत्रं प्रदत्तवानीदृक्लिखित श्लोकदुर्घटम् ॥ ३७ ॥
.. तथा हिउद्धृत्य बाहू किल रारटीति यस्यास्ति शक्तिः स च वावदीतु।
मयि स्थिते वादिनि वादिसिंहे नैवाक्षरं वेत्ति महेश्वरोऽपि ॥ ३८॥ श्रीमत्कर्णमहाराजबालमित्रं यतीश्वरः । गोविन्दाचार्य इत्यस्ति वीराचार्यकलागुरुः ॥ ३९ ॥ रात्रौ रहः समागत्य छन्नवेषः क्षमाधिपः । प्राह तं किमयं भिक्षुरपि पूज्यैः प्रतीक्ष्यते ॥ ४०॥ . तैः प्रोचे भवतामेव वाग विलोक्याऽत्र भूपते!। प्रभाते विवदिष्यन्तं वीराचार्यो विजेष्यते ॥ ४१ ॥ प्रीतो राजा प्रभाते तमाह्वास्त नृपपर्षदि । स निःस्पृहत्वदम्भेन शान्तोऽवददिदं तदा ॥ ४२॥ वयं किमागमिष्यामो निःसंगा यदि भूपतिः । अस्मद्वाकौतुकी भूम्यासनोऽत्रायातु सोऽपि तत् ॥ ४३ ॥ प्रातः कुतूहली राजोररीकृत्य तदप्यथ । तदावासे समागच्छदुर्व्यामुामुपाविशत् ॥ ४४ ॥ समाह्वयत गोविन्दसूरि सूरिसभासदम् । सोऽपरान् साकृतीनीषद् विदुषोऽपि पुरो दुधे ॥ ४५ ॥ वीराचार्य महाप्रज्ञाप्रज्ञातानेकशास्त्रकम् । उद्यत्कवित्व'वक्तृत्वावधि पश्चाञ्चकार च ॥४६॥ समाययौ ततस्तत्रोपविष्टः कम्बलासने । राजाह को वदेदेषाममुना वादिना सह ॥ ४७ ॥ श्रीगोविन्दप्रभुः स्माहानौचित्यज्वरसंगिना । अनेन शास्त्रपाथोधितरण्डोपमधीजुषः ॥४८॥ अज्ञेन सह लज्जन्ते वदन्तस्तत् शिशुः कृती पीरो वदिष्यति प्राज्ञः श्रुत्वा वादी स चावदत् ॥ ४९ ॥ दुग्धगन्धमुखो मुग्धः किं वक्ष्यति मया सह । असमानो विग्रहोऽयं नास्माकं भासते शुभः ॥५०॥ राज्ञोचे क्षीरकण्ठास्यादर्थपीयूषगन्धितः । अस्मात् त्वन्मदधत्तूरविभ्रमः स हरिष्यति ॥ ५१ ॥ श्रुत्वेति स उपन्यासमवज्ञावशतो दुधे । अर्धकूपर हस्तस्थमस्तकस्तर्कसंभवम् ॥ ५२॥ विरते तत्र चाजल्पत् श्रीवीरो विदुषां प्रभुः। वदामि गद्यात् पद्याद् वा यश्चित्ते तव भासते ॥ ५३॥ स्वेच्छं तदुद्दिश छन्दोऽलंकारं च ममाप्रतः । सर्वानुवादमर्थानुवादं वा सत्वरं भवान् ॥ ५४ ॥
श्रुत्वेति स पुनः प्राह गूर्जराडम्बरः पुरः। ममन' क्रियते बालः किं ज्ञास्यति' भवानिह ॥ ५५ ॥ 30 अथ शक्तिस्तवास्ते चेत् पद्येन छन्दसा पुनः पद मत्तमयूरेणालंकारान्निवात् तथा ॥ ५६ ॥
सर्वानुवादमाश्रित्य स निशम्येति तं जगौ । उत्तिष्ठासनसंस्थोऽस्थाः सावधानस्ततः शृणु ॥ ५७ ॥ वयं नहि गिरा देव्या अवहेला विधमहे । अर्द्धसप्तपुरो वादादाकयेति स चोत्थितः ॥ ५८॥ वाचि वीरं ततो वीरं यथा प्रागुक्तसंश्रवात । उपन्यस्यन्तमाकास्विद्यतोद्यतगीबलः॥ ५९॥
1N बहून् तथा। 20 व्यावृत्याध्य । 7N गमनं। 8A ज्ञास्यसि ।
N पर। 4 N लिखिनश्लोक। 5 N°कविखवित्कृला। 6 AN °कर्पूर ।