________________
509
१९. अभयदेवसूरिचरितम् ।
द्रम्मलक्षत्रयं कोशाध्यक्षाद् दापयति स्म सः । पुस्तकान् लेखयित्वा च सूरिभ्यो ददिरेऽथ तैः ॥ १२५ ॥ पत्तने ताम्रलिप्त्यां चाशापल्यां धवलक्कके। चतुराश्चतुरशीतिः श्रीमन्तः श्रावकास्तथा ॥१२६।। पुस्तकान्यङ्गवृत्तीनां वासनाविशदाशयाः । प्रत्येकं लेखयित्वा ते सूरीणां प्रददुर्मुदा ॥ १२७ ॥-युग्मम् ।
प्रावर्त्तन्त नवाङ्गानामेवं तत्कृतवृत्तयः । श्रीसुधर्मोपदिष्टेष्टतत्त्वतालककुञ्चिकाः ॥ १२८ ॥ ६४. पुरं धवलकं प्रापुरथ संयमयात्रया । स्थानेष्वप्रतिबन्धो हि सिद्धान्तोपास्तिलक्षणम् ॥ १२९॥ 5
आचामाम्लतपःकष्टान्निशायामतिजागरात् । अत्यायासात् प्रभोजज्ञे रक्तदोषो दुरायतिः॥ १३०॥ अमर्षन्त जनास्तत्र प्रोचुरुत्सूत्र'देशनात् । वृत्तिकारस्य कुष्ठोऽभूत् कुपितैः शासनामरैः ॥ १३१ ॥ निशम्येति शुचाक्रान्तः वान्तः प्रायाभिलाषुकः । निशि प्रणिदधे पन्नगेन्द्रं श्रीधरणाभिधम् ॥ १३२ ॥ लेलिहानेश्वरं लेलिहानं देहमनेहसा । अचिरेणैक्षत श्रीमान स्वप्ने सत्त्वकषोपलः ॥ १३३ ॥ कालरूपेण कालेन व्यालेनालीढविग्रहः । क्षीणायुरिति संन्यास एव मे साम्प्रतं ततः ॥ १३४ ॥ इति ध्यायन् द्वितीयाह्नो निशि स्वप्ने स औच्यत ।
धरणेन्द्रेण रोगोऽयं मयाऽऽलिह्य हृतस्ततः ॥ १३५ ॥-युग्मम् । निशम्येति गुरुः प्राह नाति, मृत्युभीतितः । रोगाद्वा पिशुना यत्तु' कद्वदा तद्धि दुःसहम् ॥ १३६ ॥ नागः प्राहाधृतिर्नात्र कार्या जैनप्रभावनाम् । एकामद्य विधेहि त्वं हित्वा दैन्यं जिनोद्धृतेः॥ १३७ ॥ श्रीकान्तीनगरीसत्कधनेशश्रावकेण यत् । वारिधेरन्तरा यानपात्रेण बजता सता ॥ १३८॥ 15 तदधिष्ठायकसुरस्तम्भिते वहने ततः । अर्चितव्यन्तरस्योपदेशेन व्यवहारिणा ॥ १३९॥ तस्या भुवः समाकृष्टा प्रतिमाणां त्रयी शितिः' । तेषामेका च चारूपग्रामे तीर्थ प्रतिष्ठितम् ॥ १४०॥ अन्या श्रीपत्तने चिश्चातरोर्मूले निवेशिता । अरिष्टनेमिप्रतिमा प्रासादान्तःप्रतिष्ठिता ॥ १४१ ।। तृतीया स्तम्भनग्रामे सेटिकातटिनीतटे । तरुजाल्यन्तरे भूमिमध्ये विनिहिताऽस्ति च ॥ १४२ ॥ तां श्रीमत्पार्श्वनाथस्याप्रतिमा प्रतिमामिह ।
20 प्रकटीकुरु तत्रैतन्महातीर्थ भविष्यति ॥ १४३ ॥-पशिः कुलकम् । पुरा नागार्जुनो विद्यारससिद्धो धियां निधिः । रसमस्तम्भयद् भूम्यन्तःस्थबिम्बप्रभावतः ॥ १४४ ॥ सतः स्तम्भनकाभिख्यस्तेन प्रामो निवेशितः। -
तदेषा तेऽपि कीर्तिः स्याच्छाश्वती पुण्यभूषणा ॥ १४५॥-युग्मम् । अदृष्टान्यैः सुरी वृद्धारूपा ते मार्गदर्शका । श्वेत(श्वान ?)खरूपतः क्षेत्रपालो गन्ता" यथामतः ॥ १४६॥ 25 उक्त्वेत्यन्तर्हिते तत्र सूरयः प्रमदोद्धराः । व्याकुर्वन्ति स्म सशस्य निशावृत्तं तदद्भुतम् ॥ १४७ ॥ ततश्च संमदोत्चालैः प्रक्रान्ता धार्मिकैस्तदा । यात्रा नवशती तत्र शकटानां चचाल च ॥ १४८ ॥ अग्रे भूत्वा प्रभुर्वृद्धा-कौलेयकपदानुगः । श्रावकानुगतो"sचालीत् तृणकण्टकिना पथा" ॥ १४९ ॥ शनैस्तत्र ययुः सेटीतीरे तत्र तिरोहितौ । वृद्धा-श्वानौ ततस्तस्थुस्तत्राभिज्ञानतोऽमुतः ॥ १५० ॥ पप्रच्छुरग्रे गोपालान् पूज्यं किमपि भो ! किमु । जाल्यामबास्ति तेष्वेकः प्रोवाच श्रूयतां प्रभो! ।।१५१।। 30 ग्रामे महीणलाख्यस्य मुख्यपट्टकिलस्य गौः । कृष्णाऽऽगाय झरेत् क्षीरमन सर्वैरपि स्तनैः ॥ १५२ ॥ गृहे रिक्तव सा गच्छेद् दुह्यमानाऽतिकष्टतः । मनाग्मुश्चति दुग्धं न ज्ञायतेऽत्र न कारणम् ।। १५३ ॥ तत्र तैर्दर्शितं क्षीरमुपविश्यास्य सन्निधौ । श्रीमत्पार्थप्रभोः स्तोत्रं प्रोचे प्राकृत वस्तु कैः ॥ १५४ ॥
1N अमर्षणजना 12N प्रोचुरुच्छत्र। 3N प्रेयामि'14 N वितीयेऽहि। 6 N यंतु 1 6 N °हारिणी। 7 N यी वितुः। 80 सूरिवृद्धारुपांते। 90 °खरूपतस्तत्र । 10 N D °पालो यथाप्रतः । 11 N°नुमतो। 12 N यथा ।