________________
१५२
496
प्रमावकचरिते १८. श्रीसूराचार्यचरितम् ।
सूराचार्यः श्रिये श्रीमान् सुमनःसपूजितः । यत्प्रज्ञया सुराचार्यों मात्राधिकतया जितः ॥ १॥ सूराचार्यप्रभोरत्र ब्रूमः किं गुणगौरवम् । येन श्रीभोजराजस्य सभा प्रतिभया जिता ॥२॥
चरित्रं चित्रवत्तस्य' सुधीहृद्भित्तिषु स्थितम् । शात्वा वर्णोज्जवलं व्याख्यायते स्थैर्याय चेतसः ॥ ३ ॥ 5 ६१. अणहिल्लपुरं नाम गूर्जरावनिमण्डनम् । अस्ति प्रशस्तिवत् पूर्वभूपालनयपद्धतेः ॥ ४॥
प्रतापाक्रान्तराजन्यचक्र चक्रेश्वरोपमः । श्रीभीमभूपतिस्तत्राभवद् दुःशासनार्दनः ॥ ५ ॥ शास्त्रशिक्षागुरुद्रोणाचार्यः सत्याक्षतव्रतः । अस्ति क्षात्रकुलोत्पन्नो नरेन्द्रस्यास्य मातुलः ॥ ६ ॥ तस्य संग्रामसिंहाख्यभ्रातुः पुत्रो महामतिः । महीपाल इति ख्यातः प्रज्ञाविजितवाक्पतिः ॥ ७ ॥
तत्तातेऽस्तंगते दैवाद् बाल्य एव प्रमोः पुरःसन्माता भ्रातृपुत्रं खं प्रशाधीति प्रभुं जगौ ॥ ८॥ 10 निमित्तातिशयाज्ज्ञात्वा तं शासनविभूषकम् । भादराजगृहु जायां सन्तोष्यवाग्भरैः ॥ ९॥
शब्दशास्त्रप्रमाणानि साहित्यागमसंहिताः । अमिलन् खयमेवास्य साक्षिमात्रे गुरौ स्थिते ॥१०॥ स्नेहादेव गुरोः पार्श्वममुश्चन् जगृहे व्रतम् । खपट्टे स्थापयेन्मक्षु तादृशा नोचितातिगाः ॥ ११ ॥
वार्त्तमानिकशास्त्राम्भोरुहभासुर भानुमान् । जनाज्ञानतमश्छेदी सूराचार्यः स विश्रुतः ॥ १२॥ ६२. अथ श्रीभोजराजस्य वाग्देवीकुलसद्मनः । कलासिन्धुमहासिन्धोर्विद्वल्लीलामहौकसः ॥ १३ ॥ 15 प्रधाना आजग्मिवांसः श्रीभीमनृपपर्षदम् । गाथामेकामजल्पंश्च निजनाथगुणाद्भुताम् ॥१४॥-युग्मम् ।
तथा हिहेलानिलियगइंदकुंभपयडियपयावपसरस्स ।
सीहस्स मएण समं न विग्गहो नेय संधाणं ॥१५॥ हेलया तदवज्ञाय तेषां सन्मानमादधे । आवास-भुक्तिवृत्त्याधैर्भूपस्थानं च ते ययुः ॥ १६ ॥ गतेषु तेषु भूपालः स्वप्रधानानिहादिशत् । शोध्यः प्रत्युत्तरार्यायै विपश्चित् कश्चिदद्भतः ॥ १७॥ स्वस्खमत्यनुमानेन प्रत्यार्याः कविभिः कृताः । न चमत्कारिणी राज्ञस्तासामेकाऽपि चाभवत् ॥ १८॥ . सर्वदर्शनिशालासु चतुष्के चत्वरे त्रिके । हर्म्यचैत्येषु गच्छन्ति ते तत्' प्रेक्षाकुतूहलात् ॥ १९ ॥ श्रीमद्गोविन्दसूरीणां चैत्ये ते चान्यदा ययुः । तदा पर्वणि कुत्रापि तत्रासीत् प्रेक्षणक्षणः ॥ २० ॥ अङ्गहारप्रकारैश्च त्रिपताकादिहस्तकैः । तत्र नर्ति लास्येन ताण्डवेन च नर्तकी ॥ २१॥ आतोद्यतालसंवादसपत्न विषमासनैः । श्रान्ता लक्ष्णोपलस्तम्भं स्पर्श म्रक्षणवन्मृदुम् ॥ २२ ॥ आशिश्लेष नटी खेदहतये पवनार्थिनी । तत्काठिन्यप्रकर्षस्य द्रावणायेव निर्भरम् ॥ २३ ॥-युग्मम् । व्यजिज्ञपन विशिष्टाश्च श्रीगोविन्दाय सूरये । इमामीहगवस्थानां वर्णयध्वं प्रभो! स्फुटम् ॥ २४ ॥ सूराचार्य च तत्रस्थं तदुत्कीर्तनहेतवे । तं तदा दिदिशुः पूज्यास्तत्क्षणाचाथ सोऽब्रवीत् ॥ २५॥
तद्यथायत् कङ्कणाभरणकोमलबाहुवल्लिसङ्गात् कुरङ्गकदृशोर्नवयौवनायाः।
न खिद्यसि प्रचलसि प्रविकम्पसे त्वं तत् सत्यमेव दृषदा ननु निर्मितोऽसि ॥२६॥ ___1N चित्रकृत्तस्य । 2 N D मण्डलम् । 3 N चक्रं । 4 N महीपतिः। 5 N B रुहाभासनभानु। 6 A D आज. गलांस । * 'धराजानिजनाद्भुताम्' इति A DI7N ततः। 8N सम्पन्न । 9A वर्णय त्वं ।
25
30