________________
487
१७. महेन्द्रसूरिचरितम् ।
तदा चागच्छतो राजपथि स्वं मन्दिरं प्रति । वृद्धा स्त्री दृक्पथं प्रायात्' तटस्था बालिकान्विता ॥ नवकृत्वः शिरो धूनयन्तीं वृद्धां विलोक्य सः । नृपः प्राह किमाहासौ ततोऽवादीत् कृतीश्वरः ॥ तथा हि-
किं नन्दी किं मुरारिः किमु रतिरमणः किं हरः किं कुबेरः
किं वा विद्याधरोऽसौ किमथ सुरपतिः किं विधुः किं विधाता । नायं नायं न चायं न खलु नहि न वा नापि नासौ न चैषः
१४४ ॥
१४५ ॥
क्रीडां कर्तुं प्रवृत्तः स्वयमिह हि हलें ! भूपतिर्भोजदेवः ॥ १४३ ॥ श्रुत्वाथ भूपतिर्दध्यौ नववारोचितान् किमु । विकल्पान्नवकृत्वोऽथ 'नमा पर्यहरत् ततः ॥ ज्ञानिवद्वदिता कोऽन्य एतं दुर्भाषकं विना । निग्रहार्हः स किं श्रीमन्मुञ्ज वर्द्धितविग्रहः ॥ कदाचिद् भूपतिर्मित्रं पापर्द्धावाह्वयत् ततः । ययौ स खेटकास्तंत्र शूकरं च व्यलोकयन् ॥ १४६ ॥ कामं कर्णान्तविश्रान्तमाकृष्य किल कार्मुकम् । बाणं प्राणं दधद् हस्ते व्यमुञ्चन्यञ्चदास्यकः ॥ १४७ ॥ पतितोऽसौ किरिर्घोरं घर्घरारावमारसन् । प्राहुर्विज्ञाः प्रभुर्योधः पार्थो वा नान्य ईदृशः ॥ १४८ ॥ पण्डितेशे ततो दृष्टिः श्रीभोजस्यागमत् तदा । किंचिद् वदिष्यथेत्युक्ते स प्राह शृणुत प्रभो ! ॥ १४९ ॥ तच्चेदम्—
१४३
१४१ ॥
१४२ ॥
रसातलं यातु यदत्र पौरुषं क नीतिरेषा' शरणो ह्यदोषवान् ।
निहन्यते यद् बलिनापि दुर्बलो हहा महाकष्टमराजकं जगत् ॥ १५० ॥ अन्यदा नवरात्रेषु 'लिंब जागोत्रजार्थने । राज्ञाथ विहिते हन्यमाने छागशते तथा ॥ १५१ ॥ रक्ताक्षे घात रक्ताक्षे बद्धा खङ्गाद् द्विधाकृते । एकघातात् सदेशस्थाः प्रशशंसुर्नृपं हतौ ॥ १५२ ॥ धनपालो जगादाथ कारुण्यैकमहोदधिः । एतत्कर्मकृतो विज्ञाः प्रशंसाकारिणोऽपि च ।। १५३ ॥
यतः
पसुवे रुडंवि' विहसियउ' निसुणइ साहुकारु ।
तं जाणइ नरहॅ दुहहॅ दिन्नउ संचक्कारु ॥ १५४ ॥
अन्यदा श्रीमहाकाले पवित्रारोहपर्वणि । महामद्देऽगमद् राजा वयस्यं प्रत्युवाच च ।। १५५ ।। सखे ! त्वदीयदेवानां कदापि न पवित्रकम् । अपवित्रास्ततस्ते स्यू राजमित्रं ततोऽवदत् ॥
१५६ ॥ तथा हिपवित्रमपवित्रस्य पावित्र्यायाधिरोहति । जिनः स्वयं पवित्रः किमन्यैस्तत्र पवित्रकैः ॥ १५७ ॥ अपावित्र्यं शिवे चैतद्भक्तमप्यादृतं यतः । लिङ्गार्चानन्तरं याच्यमानाभ्युपगमाद् ध्रुवम् ॥ १५८ ॥ मूर्ति श्रीकामदेवस्य रतियुक्तां हसन्मुखाम् । तालिकायाः प्रदानायोदितहस्तां नराधिपः ।। १५९ ॥ पश्यन् पण्डित चण्डांशुमाभाषत सकौतुकः । किमेष तालिकां दित्सुर्हसन् कथयति स्फुटम् ॥ १६० ॥ धनपालस्ततः सिद्धसारस्वतवशात् तदा । अवदत् तथ्यमेवाशु ज्ञानी को हि विलम्बते ।। १६१ ॥ तच्चेदमस एष भुवनत्रयप्रथितसंयमः शङ्करो
बिभर्ति वपुषाऽधुना विरहकातरः कामिनीम् ।
5
10
15
20
1 N दृक्पथप्राया । 2 N हतेः । 3 N तत्रा। 4 N पार्श्वे। 5 D निंबजा। 6 D रुडेवि । 7 A वहसियउ । 8 A नरह दुह । 9 N लिंगार्चनं तरं ।
25
30