________________
469
१४. महाकविसिद्धर्षिचरितम् ।
१२५
5
ततः सिद्धश्च तं ग्रन्थं वीक्षमाणो महामतिः । व्यमृशत् किमकार्य तन्मयाऽऽरब्धमचिन्तितम् ॥१२७॥ कोऽन्य एवंविधो मागविचारितकारकः । स्वार्थभ्रंशी पराख्यानैर्मणि काचेन हारयेत् ॥ १२८ ॥ महोपकारी' स श्रीमान् हरिभद्रप्रभुर्यतः । मदर्थमेव. येनासौ ग्रन्थोऽपि निरमाप्यत ॥ १२९ ॥
"आचार्यो हरिभद्रो मे धर्मबोधकरो गुरुः। प्रस्तावे भावतो हन्त स एवाद्ये निवेशितः ॥ १३०॥
अनागतं परिज्ञाय चैत्यवन्दनसंश्रया।
मदर्थ निर्मिता येन वृत्तिले लि त विस्त रा ॥ १३१ ॥ विषं विनिर्धूय कुवासनामयं व्यचीचरद् यः कृपया मदाशये ।
अचिन्त्यवीर्येण सुवासनासुधां नमोस्तु तस्मै हरिभद्रसूरये ॥ १३२॥" किं कर्त्ता च मया शिष्याभासेनाथ गुरुर्मम । विज्ञायैतन्निमित्तेनोपकत्तुं त्वाह्वयन्मिषात् ॥ १३३॥ 10 तदंद्विरजसा मौलिं पावयिष्येऽधुनानिशम् । आगः खं कथयिष्यामि गुरुः स्यान्न ह्यनीदृशः ॥ १३४॥ 'ताथागतमतभ्रान्तिर्गता मे ग्रन्थतोऽमुतः । कोद्रवस्य यथा शस्त्राघाततो मदनभ्रमः ॥ १३५ ॥ एवं चिन्तयतस्तस्य गुरुर्बाह्यभुवस्ततः । आगतस्तद् दृशं पश्यन् पुस्तकस्थां मुदं दधौ ॥ १३६ ॥ नैषेधिकीमहाशब्दं श्रुत्वोर्द्धः सम्भ्रमादभूत् । प्रणम्य रूक्षयामास शिरसा तत्पदद्वयम् ॥ १३७ ॥ उवाच किंनिमित्तोऽयं मोहस्तव मयि प्रभो ! । कारयिष्यन्ति चैत्यानि पश्चात् किं मादृशोऽधमाः ॥१३८॥ 15 उन्मीलादूषकाः स्फोटस्फुटा वदनविद्रुहः । स्वादविनाश्वला दन्ताः कुशिष्याश्च गताः शुभाः ॥ १३९ ॥ आहूतो मिलनव्याजाद् बोधायैव ध्रुवं प्रभो!। हारिभद्रस्तथा ग्रन्थो भवता विदधे करे ॥ १४०॥ भन्मभ्रमः कुशास्त्रेषु प्रभुं विज्ञपये ततः । स्वस्यान्तेवासिपाशस्य पृष्ठे हस्तं प्रदेहि मे ॥ १४१ ।। देवगुर्वाद्यवज्ञोत्थमहापापस्य मे तथा । प्रायत्तिश्चं प्रयच्छाद्य दुर्गतिच्छित् कृपां कुरु ॥ १४२॥ अथोवाच प्रभुस्तत्र करुणाशरणाशयः । आनन्दाश्रुपरिश्रुत्या परिक्किन्नोत्तरीयकः ॥ १४३ ॥ मा खेदं वत्स ! कास्त्विं को वनीवच्यते न वा । पानशौण्डैरिवाभ्यस्तकुतर्कमदविह्वलैः ॥ १४४॥ नाहं त्वां धूर्त्तितं मन्ये यद्वचो विस्मृतं न मे । मदेन विकलः कोऽपि त्वां विना प्राक्श्रुतं स्मरेत् ॥१४५॥ वेषादिधारणं तेषां विश्वासायापि सम्भवेत् । अतिभ्रान्ति च नात्राहं मानये तव मानसे ॥ १४६॥ प्रख्यातवप्तकः' प्रज्ञाज्ञातशास्त्रार्थमर्मकः । कः शिष्यस्त्वादृशो गच्छेऽतुच्छे मच्चित्तविश्रमः ॥ १४७॥ इत्युक्तिभिस्तमानन्द्य प्रायश्चित्तं तदा गुरुः । प्रददेऽस्मै निजे पट्टे तथा प्रातिष्ठिपञ्च तम् ।। १४८॥ 25 स्वयं तु भूत्वा निस्सगस्त्वङ्गद्रङ्गभुवं तदा । हित्वा प्राच्यर्षिचीर्णाय तपसेऽरण्यमाश्रयत् ॥ १४९॥ कायोत्सर्गी कदाप्यस्थादुपसर्गसहिष्णुधीः । कदापि निनिमेषाक्षः प्रतिमाभ्यासमाददे॥ १५०॥ कदाचित्पारणे प्रान्ताहारधारितसंवरः । कदाचिन्मासिकाद्यैश्च तपोभिः कर्म सोऽक्षपत् ॥ १५१ ॥ एवंप्रकारमास्थाय चारित्रं दुश्वरं तदा । आयुरन्ते विधायाथानशनं स्वर्ययौ सुधीः ॥ १५२ ॥ इतश्च सिद्धव्याख्याता विख्यातः सर्वतोमुखे । पाण्डित्ये पण्डितंमन्यपरशासन जित्वरः॥ १५३ ॥ 30 समस्तशासनोद्योतं कुर्वन् सूर्य इव स्फुटम् । विशेषतोऽवदातैस्तु कृतनिवृति निर्वृतिः ॥ १५४ ॥
असंख्य तीर्थयात्रादिमहोत्साहैः प्रभावनाः । कारयन् धार्मिकैः सिद्धो वचःसिद्धिं परां दधौ ॥ १५५ ॥ 1 N°भ्रंशैः। 2 N मदोपकारी। 3 A C एवाद्यनि । 4 N तथागतमति। 5A दूषला। 6 C स्तदा। 7 N प्रख्यातवक्तृकप्रज्ञा । 8N विभ्रमः । 9N शंबरम् ।
20