________________
प्रभावकचरिते
410
पठनविधिकृते विहारमाला विपुलतराऽस्ति च तत्र' दानशाला । सुगतमुनिपतिश्च तत्र शिष्याननवरतं किल पाठयेद् यथेच्छम् ।। ६२॥ अतिसुखकृतभुक्तितः पठन्तौ सुविषमसौगतशास्त्रजातमत्र । परबुधजनदुर्गमार्थतत्त्वं कुशलतया सुखतोऽधिजग्मतुस्तौ ।। ६३ ।। जिनपतिमतसंस्थिताभिसंधि' प्रति विहितानि च यानि दूषणानि । निहतमतितया यतेनिरीक्षातिशयवशेन निजागमप्रमाणैः ॥ ६४॥ दृढमिह परिहृत्य तानि हेतून् विशदतरान् जिनतर्ककौशलेन । सुगतमत निषेधदार्थयुक्तान समलिखतामपरेषु पत्रकेषु ॥ ६५ ।।-युग्मम् । इति रहसि च यावदाददाते गुरुपवमानविलोडितं हि तावत् । अपगतममुतः परश्च लब्धं गुरुपुरतः समनायि पत्रयुग्मम् ।। ६६ ।। अवलोकयतोऽस्य हेतुदाढ्यं प्रति निजतर्कमुद्ग्रदूषणेषु । जिनपतिमत भूषणेषु पक्षेष्वजयमभून्मनसि भ्रमो महीयान् ॥ ६७ ।। अभणदथ स विस्मयातिरेकात् पिपठिपुरर्हदुपासकोऽस्ति कश्चित् । अपर इह मदीयदूषितं कः पुनरपि भूषयितुं समर्थबुद्धिः॥ ६८॥ स्फुरति च क उपाय ईदृशस्याधिगमविधाविति चिन्तयन् स तस्थौ । क्वचिदमलधियामपि स्खलन्ति प्रतिपद ईदृशि कुत्रचिद् विधेये ॥ ६९ ॥ उदमिषदथ बुद्धिरस्य मिथ्याग्रहमकराकरपूर्णचन्द्ररोचिः । अवददथ निजान जिनेशबिम्बं बलजपुरो निद्धध्वमध्वनीह ।। ७० ॥ तदनु शिरसि तस्य भो ! निधाय क्रमणयुगं हि समागमो विधेयः । इदमिह न करिष्यति प्रमाणं मम पुरतोऽध्ययनं स मा विधत्ताम् ।। ७१ ।। गुरुवचनमिदं तथैव बौद्धैः कृतमखिलैरपशृंखलैः खलैस्तैः । अथ मनसि महार्तिसंगतौ तौ विममृशतुः प्रकटं हि संकटं नः ॥ ७२ ॥ न विदधिव' यदिह क्रमौ सशूको प्रतिकृतिमूर्धनि लक्षितौ तदानीम् । नहि पुनरपि जीविते किलाशा विकरुणमानसपाठकादमुष्मात् ॥ ७३ ॥ बलिमिह पदयोः क्रियावहे सद्गुरुहरिभद्रमुनीश्वरस्य तस्य । अतिदुरितमनागतं विचार्य व्रजनविधिं प्रतिषेधति स्म यः प्राक् ॥ ७४ ।। अविनयफलमावयोस्तदुग्रं समुदितमत्र विनिश्चितं तथैतत् । न चलति नियमेन दैवदृष्टं निजजनने सकलङ्कता मृतिर्वा ॥ ७५ ॥ नरकफलमिदं न कुर्वहे श्रीजिनपतिमूर्द्धनि पादयोनिवेशः । परिशटिततरौ वरं विभिन्नो निजचरणौ नतु जैनदेहलग्नौ ॥ ७६ ।। निधनमुपगतं यथा तथा वा तदिह च साहसमेव संप्रधार्यम् । इति दृढतर आवयोर्निबन्धः प्रतिकृतमत्र कृते विधेयमेव ॥ ७७ ॥
1A B तत्र तत्र । 2 A संधिप्रति । 3 N तान् हि। 4 Cमति'; N गत। 5 A °पतिमथ । 6 CN.इदमपि । 70 विदघे च। 8A देवदिष्टं ।