________________
397
७. जीवसूरिचरितम्।
तत्र प्रवर्तकोऽवोचन्मुच्यतां शिविका भुवि । प्रभोमित्रमसौ योगी दृष्ट्वास्यं जीवताद् घनम् ॥ १९३ ॥ विमुक्ते याप्ययाने च प्रकाशे तन्मुखे कृते । चूर्णितं तच्च दृष्ट्वासौ हस्तौ घृष्ट्वाऽब्रवीदिदम् ॥ १९४ ॥ एकखंडं कपालं श्रीविक्रमादित्यभूपतेः । ममाचार्यस्य चास्य स्यात् पुण्यपुरुषलक्षणम् ॥ १९५ ॥ करे मेऽस्य कपालं चेदारोक्ष्यन्मे मनोरथाः । अपूरिष्यन्त' किं कुर्मो नाभाग्यैः प्राप्यमीदृशम् ॥ १९६ ॥ जीवता च मृतेनापि सख्याहं घृष्ट एव यत् । मर्येषु स पुमानेको येनाहं स्वमतेर्जितः ॥ १९७ ॥ . 5 परं तथापि लोकोऽस्य संस्कारे मां दिशत्वसौ । ममाप्यद्य विभागोऽस्तु पुण्यस्यागण्यसौहृदात् ॥ १९८॥ एवं कृते च स व्योम्नाऽत्रानयन् मलयाचलात् । श्रीखंडागुरुकाष्ठानि विदधेऽङ्गं च भस्मसात् ॥ १९९ ॥ अद्यापि तत्प्रभावेण तस्य वंशे कलानिधिः । भवेत् प्रभावकः सूरिरमराभः स्वतेजसा ॥ २० ॥ इत्थं चरित्रमधिगम्य महाप्रभावं श्रीजीवदेवसुगुरोर्दुरितापहारि। नित्यं स्मरन्तु विबुधा अवधानधीरा नन्द्याच सूरिगरिमस्फुरणैकहेतुः ॥ २०१॥ 10
श्रीचन्द्रप्रभसूरिपट्टसरसीहंसप्रभः श्रीप्रभा
चन्द्रः सूरिरनेन चेतसि कृते श्रीरामलक्ष्मीभुवा । श्रीपूर्वर्षिचरित्ररोहणगिरौ शृङ्गोऽगमत् सप्तमः
प्रद्युम्नप्रभुशोधितः सुचरितं श्रीजीवदेवप्रभोः ॥ २०२ ॥ वाग्दारिद्यप्रमथननन्दमनोरतिलतादृढाधारः। सुमनाप्रसरोल्लासः श्रीमत्पगुम्नकल्पतरोः ॥ २०३ ।।
॥ इति श्रीजीवसूरिप्रबंधः सप्तमः ॥ ॥ ग्रं० २०६ अ० २। उभयं १४९३ अ०२॥
1 BC इति । 2 A अपूरिष्यति। 3 B एव घृष्ट । 4 AC हेतु । * AC नास्ति समाप्तिसूचका पङ्किरियम् ।