________________
प्रभावकचरिते
392
10
15
शास्त्रैः प्रमाणसिद्धान्तैर्बुध्येथामितरेतराम् । तदेकमतिको भूत्वा धर्म स्थापयतं हि माम् ॥ ३१ ॥ स मातुरुपरोधेन विजढे वायटे पुरे । नाशिक्याविव तो तत्राभिन्नरूपी च संगतौ ॥ ३२ ॥ आचार्यों किल सोदयौँ श्वेताम्बर-दिगम्बरौ । स्वस्वाचारं तथा तत्त्वविचारं प्रोचतः स्फुटम् ॥ ३३ ॥ दिग्वासा निर्ममाभासः सद्वतः श्वेतवाससा । अपि प्रौढवचःशक्तिबोंधितः शोधितांहसा ॥ ३४ ॥ तावन्यदा सवित्र्या च भिक्षावृत्त्यै निमश्रितो । महाभक्त्या तदाचारदर्शनार्थ च किश्चन ॥ ३५॥ एकः शुश्रूषितस्थालीवृन्दे भोज्यविधिः कृतः । सामान्यो मध्यमस्थानेष्वपरः प्रवरः' पुनः ॥ ३६॥ दिग्वासाः पूर्वमायातो द्वेधाप्यस्याथ दर्शितः । अमत्रनिकरो रम्यभाण्डस्थस्तेन चाहतः ॥ ३७॥ यावदृष्टः कोऽसौ शीतो दग्धो विसंस्कृतिः । सविकारं मुखं बिभ्रदपश्यन् मातरं तदा ॥ ३८॥ तथा द्वितीयपुत्रस्य साधुयुग्मं समागतम् । प्रदर्श्य भोज्ययुग्मं च जननी प्राह हर्षतः ॥ ३९ ।। अनयोरुचितं यद् वस्तद् गृहीतेति जल्पिते । विमृश्य पाहतुः साधू ग्राह्यं नः शुद्धमेव तत् ॥ ४० ।। आधाकर्मिकदोषे च संदिग्धे कल्पते न तत् । अपि द्वयमनादायागातां तौ मुनिसत्तमौ ।। ४१॥ अथ प्राह सवित्री च सवित्री धर्मकर्मणः । सुतं दिगम्बराचार्य 'दृष्टं भ्रातृव्रतं त्वया ?' ॥ ४२ ॥ बही रम्ये शुभाभासे रक्तानामल्पकं फलम् । आहार इव धर्मेऽपि ध्यात्वेति स्वरुचिं कुरु ॥४३ ।। प्रतिबुद्धो जनन्या स वाग्भिर्बन्धोश्च सन्मतिः । भाखान् प्रपद्यते स्मैष महसे निर्मलाम्बरम् ।। ४४ ॥ श्रीराशिलप्रभोः पार्श्वे दीक्षा-शिक्षाक्रमादयः । जैनागमरहस्यानि जानन् गीतार्थतां ययौ ॥ ४५ ॥ .
अन्यदा सद्गुरुयोग्य बन्धुं पट्टेन्यवीविशत् । श्रीजीवदेव इत्याख्याविख्यातः सद्गुरुबभौ ॥ ४६ ।। ६३. यतिपश्चशतीरूपपरिवारविराजितः । आन्तरद्वेषिनिष्पेषनिस्त्रिंशः सदयोऽपि सन् ॥ ४७ ।।
व्याख्यां कुर्वन्नदप्रश्रीः श्रीवीरभवनेऽन्यदा । योगिना भोगिना दृष्टिविषेणेवेक्षितो गुरुः॥४८॥-युग्मम् । दध्यौ च 'स महातेजाः सकलो धवलाम्बरः । सार्वभौम इवाभाति जनेऽस्मिन् विस्मयं दधन् ॥ ४९ ।। प्राकृतोपद्रवे शक्तिर्या सा का मेऽस्य चेदिह । विदधे किमपि क्षुणमक्षूणं तदहं पुमान् ॥ ५० ॥ विमृश्येति सभामध्यमध्यासीनः स्खलोलया । लोलयाबध्य पर्यकमुपाविशदिलातले ॥ ५१ ॥ वाचकस्य रसज्ञां चास्तम्भयन् मौनवान् स च । अभूत् तद(दि)ङ्गितैतिं गुरुणा योगिकर्म तत् ॥५२॥ स्वशक्त्या वाचने शक्तं खं विनेयं विधाय च । अमुञ्चत् समये व्याख्यामव्याकुलमनाः प्रभुः॥ ५३ ।। तस्य पर्यस्तिकाभूमावासनं वनलेपवत् । तस्थौ यथा तथा तस्य प्रस्तरेणेव निर्मितम् ॥ ५४॥ ततोऽवददसौ कृत्वा करसम्पुटयोजनम् । अलीकप्रणिपातेन महाशक्ते ! विमुश्च माम् ॥ ५५॥ . अपि श्रद्धालुभिः कैश्चिद् विज्ञप्तः कृपया प्रभुः । मुक्तोऽगात् तेन कः शक्तः कुञ्जरेणेक्षुभक्षणे ॥ ५६ ।। प्रभुयषेधयत् तत्र साधुसाध्वीकदम्बकम् । उदीच्यां दिशि गच्छन्तं स्वीकृतायां कुयोगिना ॥ ५७ ॥ . धर्मकर्मनियोगेन साध्वीयुगमगात् ततः । तत्र कासारसेतौ च तिष्ठन् योगी ददर्श तत् ॥ ५८ ॥ अथ सन्मुखमागत्य लाघवालाघवाश्रयः । एकस्या मूर्ध्नि चूर्ण च किश्चिच्चिक्षेप निष्कृपः ॥ ५९॥ तस्य सा पृष्ठतो गत्वा पार्श्वे निविविशे ततः । वृद्धयोक्ता न चायाति धिकष्टं पूज्यलंघनम् ॥ ६॥ साश्रुरागत्य सूरीणां सा तद्वृत्तं व्यजिज्ञपत् । मा विषीद' भलिष्यामः कार्येऽत्रेति प्रभुर्जगौ ॥ ६१ ।। ततः कुशमयं तत्र पुत्रकं ते समार्पयन् । चतुर्णा श्रावकाणां च शिक्षित्वा तेऽप्यथो ययुः ॥ ६२ ।। निर्गत्य च बहिश्चैत्याच्छित्त्वा तस्य कनिष्ठिकाम् । तत्पार्श्वगाः करं तस्य ददृशुस्ते निरङ्कलिम् ॥ ६३ ।।
पृष्टः कस्मादिदं जातमकस्मादिति सोऽवदत् । ऊचे तैर्मुच्यतां साध्वी बहुप्रत्यूहकारिणी ॥ ६४ ॥ 1N प्रचरः । 2 N शुभाभ्यासे । 3 A B N °क्रमोदयः । 4 N स च । 5 N खलीलया। 6 N विषादं ।
20
25