________________
१. वज्रस्वामिचरितम् ।
१५७ ॥ 10 १५८ ॥
॥ १५९ ॥
महापरिज्ञाध्ययनाद् आचाराङ्गान्तरस्थितात् । श्रीवत्रेणोद्धृता विद्या तदा गगनगामिनी ।। १४८ ॥ १८. अवृष्टेरन्यदा तत्राभूद् दुर्भिक्षमतिक्षयम्' । सचराचरजीवानां कुर्वदुर्वीतलेऽधिकम् ॥ १४९ ॥ सीदन् संघः प्रभोः पार्श्वमाययौ रक्ष रक्ष नः । वदन्निति ततो वज्रप्रभुस्तन्निधे हृदि ।। १५० ।। पटं विस्तार्य तत्रोपवेश्य संघं तदा मुदा । विद्ययाऽऽकाशगामिन्याऽचलद् व्योम्ना सुपर्णवत् ॥ १५१ ॥ तत्र शय्यातरो दूरं गतस्तृणगवेषणे । अन्वागतो वदन् दीनः सोऽपि न्यस्तारि सूरिणा ॥ १५२ ॥ आययौ सुस्थदेशस्थामचिरेण महापुरीम् । बौद्धशासनपक्षीयनृपलोकैरधिष्ठिताम् ॥ १५३ ॥ सुखं तिष्ठति संघे च सुभिक्षाद् राजसौस्थ्यतः । सर्वपर्वोत्तमं पर्वाऽऽययौ पर्युषणाभिधम् ॥ १५४ ॥ राजा च प्रत्यनीकत्वात् * कुसुमानि न्यषेधयत् । संघो व्यजिज्ञपद् वज्रं जिनाचचिन्तयार्दितः ॥ १५५ ॥ उत्पत्य तत आकाशे काशसंकाशकीर्तिभृत् । माहेश्वर्या उपर्यागान्नगर्या : कोविदार्यमा ।। १५६ ॥ आरामस्थः पितुर्मित्रमारामिकगुणाग्रणीः । वज्रं ' बकुलसिंहाख्यो वीक्ष्य नत्वा च संजगौ ॥ किमप्यादिश मे नाथ ! कार्य सूरिरतोऽवदत् । सुमनः सुमनोभिर्मे कार्यमार्य ! कुरुष्व तत् ॥ पूज्यैर्व्यावृत्तिवेलायां ग्राह्माणीति निशम्य सः । ययौ देव्याः श्रियः पार्श्वे तं क्षुद्र हिमवद् गिरिम् धर्मलाभाशिषाऽऽनन्द्य तां देवीं कार्यमादिशत् । ददौ सहस्रपत्रं सा देवार्चार्थं करस्थितम् ॥ १६० ॥ तदादाय प्रभुर्वः पितृमित्रस्य सन्निधौ । आययौ विंशतिर्लक्षाः पुष्पाणां तेन ढौकिताः ।। १६१ ॥ विमाने' वैयेि 'तचावस्थाप्यागान्निजे पुरे । जृम्भकैः कृतसङ्गीतोत्सवे गगनमण्डले ।। १६२ ॥ ध्वनत्सु देवतूर्येषु शब्दाद्वैते विजृम्भिते । तं तदूर्ध्वं समायान्तं दृष्ट्वा बौद्धाश्वमत्कृताः ॥ १६३ ॥ ऊचुर्धर्मस्य माहात्म्यमहो नः शासने सुराः । आयान्ति पश्यतां तेषां ते ययुर्जिनमन्दिरे ॥ १६४ ॥ श्राद्धसंघः प्रमुदितः पूजां कृत्वा जिनेशितुः । तत्र धर्मदिने धर्ममश्रौषीद् वज्रसद्गुरोः ॥ १६५ ॥ प्रातिहार्येण चानेन राजा तुष्टोऽभ्युपागमत् । प्रत्यबोधि च वज्रेण बौद्धाश्चासन्नधोमुखाः ॥ १६६ ॥ ६९. विहरन्नन्यदा स्वामी प्रययौ दक्षिणापथम् । कुत्रचिच्छुद्धभूभागोद्यानेऽसौ समवासरत् ॥ १६७ ॥ + श्लेष्मरोगापनोदायानाययद् विश्वभेषजम् । उपयुक्तावशेषं च श्रवणेऽधारयत् ततः ॥ प्रत्युपेक्षणकाले || तत् तत्रस्थं चापराह्निके । मुखवस्त्रिकया 'स्रस्यत् कर्णयोः प्रतिलेखने ॥ दध्यावायुरहो ! क्षीणं विस्मृतिर्यन्ममोदिता । पुनर्दुर्भिक्षमाप्तं च 'प्रागुक्तादधिकं ततः वज्रसेनस्तदादिश्य" वंशार्थं वज्रसूरिभिः । प्रहितः स शनैः प्रायात् कुंकुणान् वित्तवञ्चणान् " ॥ १७१ ॥ अलब्धभिक्षान् दुर्भिक्षाद् विद्यापिण्डेन भोजितान् । साधूनाह च" भोज्योऽयं नित्यं द्वादशवत्सरीम् ॥ १७२ ॥ 25 "ग्राह्यं "वानशनं ते च श्रुत्वा तत् प्रायमाविशन्। श्रीवञ्चः कुत्रचिच्छैले साधुभिः सहितो ययौ ॥ १७३ ॥ मार्गे गच्छद्भिरेकत्र प्रामे प्रालम्भि " सूरिभिः । शिष्य एकः स तज्ज्ञात्वा वैराग्यं परमं दधौ ॥ १७४ ॥ दध्यौ च प्रोज्झ्य मामेते जग्मुर्जीवत्वसाविति । निःसत्त्वोऽहं कथं दृष्टः प्रभुं नानुव्रजामि तत् ॥ १७५ ॥ ध्यात्वेति तप्तपाषाणे पादपोपगमं व्यधात् । व्यलीयंत मधूच्छिष्टमिव स " त्वरितस्तदा ॥ १७६ ॥ तद्विपत्तौ महे देवैः क्रियमाणे मुनीश्वरः । यतीनां पुरतोऽवादीच्छिशोः सत्त्वमिदं महत् ।। १७७ ॥ तच्छ्रुत्वा मुनयः सर्वे परं वैराग्यमादधुः । प्रशान्तविग्रहास्तस्थुः स्थण्डिलेषु पृथक् पृथक् ।। १७८ ।। प्रत्यनीका सुरी तत्रोपसर्गायोपतस्थुषी । निशीथे दिवसं कृत्वा दधि तेषामढौकयत् ॥ १७९ ॥
१६८ ॥
१६९ ॥
॥
१७० ॥
351
1B °मितिक्षयं । 2 A दीनं ।
।
''दर्शनना अभक्त पणातु' इति B टि । 3N वज्रं च कुल 5 N विमान° । 6 N तांथा' + 'देवतानइ भलावीनइ' इति B टि० । 'रोग छेदनात्' इति B टि० ।
B टि० | || 'पडिलेण वेलाई' इति B टि० । 7 A भ्रस्यत्; C श्रस्यत्
11 A चित्तविश्वणान्; C वित्तवश्चरान् । 12 'च' नास्ति B 13 C ग्रामं
।
।
8B क्षणं । 14 N चान°
७
4AB ° गिरे । 'बावरवानी वेलाई' इति 10 N तथादिश्यं । 16 A सत्वरत° ।
9A प्रागुप्ता ° 15 B प्रालंभ°
5
15
20
30